________________ चेति पाठान्तरमाश्रित्य-आमृशता सेवमानेन स्पृशता भगवत्पादारविन्दम्, आवसता च तदन्तिक इत्यर्थः / अनेन गुरुकुलवास: प्रथमाचार उपदिष्ट इति। किमित्याह - गुरुकुलवासाऽऽसेवनम्आ द्यं प्रथमं व्यवहारबीजं व्यवहारो हिताहितप्रवृत्तिनिवृत्तिलक्षणस्तस्य बीजं हेतुः, इदम्अनन्तरोक्तलक्षणं गुरुकुलवासा सेवनमिति।।१४।। गुरुकुलवासस्यैव फलविशेषमाह - अस्मादेव हि चरणं सिध्यति मार्गानुसारिभावेन / गुरुकुलवासत्यागे नेयं भणिताऽकृतज्ञस्य / / 15 / / टीका - अस्मादेव गुरुकुलाऽऽसेवनादेव हि यस्मात् चरणं समितिगुप्तिलक्षणं सिध्यति पूर्णतामेति मार्गानुसारिभावेन मोक्षमार्गानुसारितया चेतसोऽवक्रगमनात्। तस्मात् गुरुकुलवासत्यागे उक्तलक्षणस्य गुरुकुलवासस्य त्यागे परिहारे न नैव इयं चरणसिद्धिः भणिता तीर्थकरगणधरैः अकृतज्ञस्य कृतज्ञतागुणरहितस्येति / / 15 / / अनन्तरोक्तमेव विशदयति - सामान्यधर्मतः खलु, कृतज्ञभावाद्विशिष्यते चरणम् / सामान्यविरहिणि पुनर्न विशेषस्य स्थितिर्दृष्टा / / 16 / / टीका- यत: सामान्यधर्मतः साधारणधर्मादेव खलुशब्दोऽवधारणे कृतज्ञभावाद् कृतमुपकारमविस्मरणतया जानातीति कृतज्ञस्तस्य भावः कृतज्ञता ततो विशिष्यते प्रकर्ष प्राप्यते चरणम् उक्तलक्षणम्। एतदेव विपर्ययेण सिद्धान्तत:प्रस्थापयति - सामान्यविरहिणि व्यापकधर्मकृतज्ञतादिविरहिते जीवे पुनर्विशेषे न नैव विशेषस्य व्याप्यधर्मचारित्रादे: स्थितिः सत्ता यथा मृदभावे घटादे: स्थितिनैव दृष्टा विलोकितेति / / 16 / / उपदेशदानेनोपसंहरन् गुरुगुणान् निर्देष्टुमाह तस्माद् गुरुकुलवासः श्रयणीयश्चरणधनविवृद्धिकृते। गुरुरपि गुणवानेव श्लाघ्यत्वमुपैति विमलधियाम् / / 17 / / टीका - तस्मात् कारणाद् गुरुकुलवास उक्तलक्षणः श्रयणीय आसेवनीयः चरणधनविवृद्धिकृते चरणं चारित्रं तदेव धनं सर्वस्वं यतीनां तस्य विवृद्धिकृते स्फात्यर्थम्। अथ प्रव्राजकगुरुविषयमाह - गुरुरपि आचार्योऽपि गुणवानेव अस्खलितशीलशमदमज्ञानादिगुणसम्पन्न एव श्लाघ्यत्वं प्रशंसनीयताम् उपैति प्राप्नोति, केषाम्? विमलधियां शिष्टानामिति ।।१७।।आचार्यगुणानाह - प्रव्रज्यार्हगुणविधिप्रवजितो गुरुकुलाश्रितो नित्यम् / अक्षतशील: शान्त: तत्त्वज्ञोऽवगतसूत्रार्थः / / 18 / / प्रवचनवात्सल्ययुतः सत्त्वहितरतोऽनुवर्तको धीरः / गुर्वनुमतपदनिष्ठो धर्मकथाकृज्जनादेयः / / 19 / / महामहोपाध्याय श्री यशोविजय विरचितं 7 मार्गपरिशुद्धिप्रकरणंसटीकम्