________________ कायमाल। पदं श्रुतेरसुखदं कष्टमित्यभिशब्दितम् / 'वर्वष्टि जलदो यत्र यत्र दुर्घष्टिं चातकः / पोफुति नीपः कालोऽयं चर्कति हृदयं मम // 3 // अत्र वर्वादीनि क्रियापदानि श्रुत्यसुखदानि श्रूयन्ते // पदमित्यादि / दुर्वचकवारब्धपदं कष्टोच्चारणीयतया कष्टमुच्यते / श्रुतेरसुखदमिति दूषकताबीजोद्धाटनम् / कदर्थिता हि तेन श्रुतिशक्तिर्न तद्वाक्यप्रतीकपरामर्शक्षमेति / काव्यप्रकाशकृता पदैकदेशः कष्ट उक्तः, यथा-'तद्गच्छ सिद्ध्यै', 'अपेक्षते प्रत्ययमहलब्ध्यै' इलन 'थै '' इति, तत्राह-पदमिति / न हिं समस्तवस्तुकटुत्व एव पदं कष्ठत्वमासादयति / कार्तार्थ्यमित्यादौ तदुद्दाहते तदभावात् / एकदेशकष्टतया पदकष्टत्वमिति चात्रापि न दण्डवारितमिति भावः / वर्वर्टि पुनः पुनर्वर्षति / वृषेर्यड्लुगन्तस्य रूपम् / दर्टि पुनः पुनधृष्टो भवति / 'अिधृषा प्रागल्भ्ये इलस्य तत्रैक रूपम् / 'दर्द्रष्टि' इति पाठे दृशेर्यलुक्यमागमे च रूपम् / पुनः पश्यति / नीपः कदम्बः। पोफुक्ति, / 'फुल्ल विकसने' इत्यस्य तत्रैव रूपम् / एवंभूतो वर्षासमयो मम विदूरकान्तस्य हृदयं चर्ति पुनः पुनरतिशयेन वा छिनत्ति / 'कृती छेदने' इत्यस्य रूपम् / भूयसां कष्टपदानां समभिव्याहाराद्वाक्यदोष इति भ्रान्तिः स्यात्तत्राह-क्रियापदानीति / कथमेवं विभागोऽवसीयत इत्यत आह-श्रूयन्त इति / श्रोत्रप्रत्यक्षेणैव पदमात्रगामिलया कष्टत्वमनुभूयते इत्यर्थः॥ पादपूरणमात्रार्थमनर्थकमुदाहृतम् // 8 // .. विभर्ति यश्च देहाचे प्रियामिन्दं हि मूर्षनि। स वै देवः खलु त्वां तु पुनातु मदनान्तकः // 4 // .. अन्न '' 'हि' 'वै' 'खलु' 'तु' इत्येतानि पदानि पादानेव पूरयन्ति / पादपूरणेति / द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययमनर्थकमभिमतम् , अत एक प्रारमैश्वादिपदमव्ययमिति प्रयोमधीजकधनार्थ नहि निर्मूल प्रयोगः संभवति वृत्तिनिर्वहणसमर्थः / प्रायेणाव्ययपदानि क्षित्वा. तत्पूरयति / तदुकम्-'कुकवि