________________ "1 परिच्छेदः।] सरखतीकण्ठाभरणम् / प्रबन्ध इव डिष्टपदप्रचारः। प्रकटतुहिनचयो जनाकीर्णश्च' इति / बिभर्तीति / र समुच्चयादिषु चतुर्पु प्रसिद्धप्रयोगो न च तेषामन्यतमोऽप्यत्र संभवति / नाप्युचावार्थकः इति भाषणेनार्थान्तरमपि / एवं हिप्रभृतिष्ववसेयम् / एतेनैतदप्यपास्तम् / यदाहुरेके-पदादिविशेषानुपादानात्पदैकदेशोऽप्यनर्थकोऽभिमतः / तथा च-'आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् / संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरक्षेक्षणा // ' इत्यत्र दृशामिति बहुवचनमनर्थकं कुरक्षेक्षणाया एकस्या एवोपादानात् / न चात्र व्यापारे रक्सब्दो वर्तते, अञ्जनपुञ्जलेपादीनामनन्वयापत्तेः / तथा 'कुरुते' इत्यात्मनेपदमनर्थकमकञभिप्रायक्रियाफलादिति / अपि च / बहुत्वकर्बभिप्रायफलाभावे कथनं द्वयोरसाधुत्वमिति राजमार्ग एव भ्रमः / नहि खरूपत एव किंचिदसाधु साधु वा संभवति // . रूढिच्युतं पदं यत्तु तदन्यार्थमिति श्रुतम् / यथा 'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् / _ आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् // 5 // " अत्र विभजतेर्वण्टने, आलभतेर्मारणे, आवहतेः करणे, प्रस्मरतेविस्मरणे रूढिः / न तु विशेषसेवायाम् , अमितो लामे, समन्ताद्वहने, प्रकृष्टस्मरणे चेति // रूढिच्युतमिति / शक्तिमनपेक्ष्य प्रयुक्तं रूढिच्युतम् / अत एव यदभिसंधाय प्रयुज्यते न कथंचन यस्यासावर्थ इति अन्वर्थमन्यार्थमिति नाम / एतदेव धातुविशेषोऽवान्तरमुपसर्गविशेषयोगतो योगवानित्यादिनान्यैरुक्तम् / विभजन्त इति / भजिः सेवार्थो विरुपसर्गस्तद्गतविशेषद्योतकस्ततश्च यथा विद्योतत इति / * अत्र विशिष्टधात्वनुरूपप्रयोगाभिधानं तथानापि भविष्यतीति भ्रमो बीजमत्र शब्दशक्तिखभावात् / क्वचिदुपसर्गोपसंदानेन धातुरन्तर एव वर्तते / यदाहुः'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते / प्रहाराहारसंहारविहारपरिहारवत् // ' इति / तदाह--अत्र विभजतेरित्यादि / नन्वर्थापेक्षित्वे पदार्थदूषणमेवंविधमिति वामनः / . नैतत् / पदस्यैवान्वयव्यतिरेकवत्त्वात् / नपत्रान्वयस्यापराधः कश्चित् / किं तु