________________ काव्यमाला / शब्द एव वृत्तिस्खलितादिभिरपराध्यति / यदि चार्थापेक्षितामात्रेणार्थदोषत्वं कथमसाधुप्रभृतीनामपि शब्ददूषणता / नहि तानि खरूपत एव तथापि त्वर्थविशेषो विशेष एवाश्वगोश्वादिवदिति / अर्थदोषास्तु यथा भवन्ति तथा वक्ष्यामः / .. यत्तु तुच्छामिधेयं स्यादपुष्टार्थं तदुच्यते // 9 // .. यथा... 'शतार्धपञ्चाशभुजो द्वादशार्धाधलोचनः / विंशत्यर्धार्धमूर्धा वः पुनातु मदनान्तकः // 6 // अत्र दशबाहुः, त्रिलोचनः, पञ्चवक्र इति तुच्छमेवाभिधेयमतुच्छशब्दैरुक्तमिति अपुष्टार्थम् // : ___ यत्तु तुच्छाभिधेयमिति / स्तोकशब्दाभिलभ्येऽर्थे बहुतरशब्दबहुलमित्यर्थः / नहि तथा क्रियमाणमल्पीयसीमपि प्रकर्षतां पुष्यति येन त्याज्यं न स्यादित्यपुष्टपदेन सूचितम् / शतस्याध पञ्चाशत्तेषां पञ्चतमोऽशो दश / समासे पूरणप्रत्ययलोपः // .... .. . .... '.. असंगतं पदं यत्तदसमर्थमिति स्मृतम् / यथा- . .. 'जलं जलधरे क्षारमयं वर्षति वारिधिः / ___ इदं बृंहितमश्वानां ककुद्मानेष हेषते // 7 // अत्र जलधरो मेघः, वारिधिः समुद्रः, बृंहितं गजानाम्, हेषितमश्वानामिति लोकप्रसिद्धम् / तदिह समुद्र-मेघ-अश्व-वृषभविषयतया प्रयुज्यमानमसंगतार्थत्वादवाचकमित्यसमर्थम् // . असंगतमिति / कथं पुनरिदमन्यार्थाद्भिद्यते / अत्राराध्याः। अन्यार्थे केवलं . योगादूढिर्बलवती / असमर्थे तु केवलयोगाद्योगरूढिः / तदुपरे दूषयन्ति / तथापि रूदिच्युतिः साधारण्येव तदवान्तरं विशेषद्वयमन्यदिति / तन्न / भावान्वबोधात् / किंचिद्धि पदमपवादकारणबलादवगम्यमानमपि योगमनपेक्ष्यैव क्वचिदर्थविशेषे वर्तते / यथा- गौरिति / नहि, गमनस्य वाक्यार्थे. प्रवेशः संभवति / किंचित्पुनर