________________ 1 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / सति बाधहेतौ बुध्यमानस्य त्यांगायोगाद्योगविशिष्टमेवोपाधिमभिधत्ते / यथा-पङ्कजमिति / तत्राद्यप्रकारे रूढिरेव सर्वखमिति तत्परित्यागे रूढिच्युतम् / द्वितीये तु योगमात्रे,प्रयुक्तमसंगतं शक्तिशून्ये प्रयुक्तं शक्त्यैकदेशे प्रयुक्तमिति भिन्नोऽर्थस्तदेतत्सर्वं व्याख्यानेन स्फुटयति'अत्र जलधरेति / जलधरादिपदामि जलधारणादिविशिष्ट मेघत्वादी रूढाभिंधानशक्तीनि / कथमेतदवसितमिति चेत्तत्राह-लोकप्रसिद्धमिति / लोकाधीनावधारणत्वाच्छब्दार्थसंबन्धस्येति भावः। ततश्च यद्विशिष्टस्य योगस्य शक्तिविषयतया न तेन संकेतः। यत्र च समुद्रादौ प्रयोगो न तदुपाधिभिः समुद्रत्वाद्यैः संभूय शक्त्या संकेतः / क्षारादिपदोपसंदानेन च समुद्रादौ प्रयोग उन्नीयत इत्याह-तदिहेति / अत एव न तदवस्थस्य पदं वाचकमत एव चाक्षमत्वादसमर्थमिति संज्ञयैव व्यवहियत इति संक्षेपः // .............. अप्रतीतं तदुद्दिष्टं प्रसिद्धं शास्त्र एव यत् // 10 // - यथा- . . 'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः। .. ... गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः // 8 // ' . अत्र रूपस्कन्ध-नान्तरीयकशब्दयोः शास्त्रप्रसिद्धत्वादन्यत्राप्रतीयमानयोः प्रयोगादप्रतीतम् // * अप्रतीतमिति / शास्त्रमात्रप्रसिद्ध शास्त्रव्यवहारिमिः संकेतितमित्यर्थः / प्रतीताप्रतीतसमभिव्याहाररूपं हि वाक्यमशास्त्रज्ञविषयं प्रयुक्तमभिमतार्थप्रतीतिं न जनयितुमीष्टे / तत्राप्रतीतानामेवापराधोऽतः परिस्खलनखेददायितया भवति दुष्टत्वम् / अत एवाप्रयुक्ताबहिर्भावः / किं भाषितेनेति / रूपस्कन्धवाचोयुक्तिः सौगतसमयप्रसिद्धा / तेषां रूपं वेदना संज्ञा संस्कारो विज्ञानमिति पञ्चस्कन्धाः / तत्रापि रूपस्कन्धपदार्थ एकादशपदार्थकः / पञ्चेन्द्रियाणि पश्च विषया विज्ञप्तिरेकादशीति अक्रिया / अन्तरमिति. विनार्थे गहादौ पठ्यते / 'तत्र भवः' इति छ स्वार्थिके च कनि नसमासे पृषोदरादित्वानलोपाभाव इति भाष्यटीका / प्रेम्णो व्यापका गुणा न सन्ति मे म च व्यापकमन्तरेण व्याप्यं भवतीति व्यापकानुपलब्धिप्रयुक्तत्वात्प्रेमाभावस्य तथोपालम्भे वाच्यता नास्तीति भावः / शास्त्र एवेत्यवधारणेन यद्यावयते तदाह-अन्यत्रेति / लोक इत्यर्थः /