________________ 1 काव्यमाला। - दूरे पसार्यसवित्तिः क्लिष्टं नेष्टं हि तत्सताम् / यथा. 'विजितात्मभवद्वेषिगुरुपादहतो जनः / हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति // 9 // अत्र विना गरुत्मता जित इन्द्रस्तस्यात्ममवोऽर्जुनस्तस्य द्वेषी कर्णस्तस्य गुरुः सूर्यस्तत्पादैरमिहतो लोक आकाशमभिनन्दति / कीहशम् / हिमापहो वह्निस्तस्यामित्रो जलं तद्धारयन्ति ये मेघास्तैाप्तमिति व्यवहितार्थप्रत्ययं क्लिष्टमेतत् // दूर इति / दूरं चिरं विलम्ब इत्यनान्तरम् / क्लेशो द्विविधः-पदविषयः, वाक्यविषयश्च / आद्यः सामान्यशब्दस्य प्रकरणादिकमनपेक्ष्य क्वचिदभिप्रेतविषये प्रयोगः / तथा सति वाचकतायामपि झटिति प्रतिपत्तिर्न भवति / किं तु परस्परान्वयपोलोचनया चिरेणेति विरसत्वम् / यदाह-नष्टं हि तत्त्रसितानाम्' इति, अयमेवार्थो व्यवधानपदेन वामनादिभिरुक्तः / द्वितीयस्तु व्याकीर्णादिपदेनान्यथा वक्ष्यते-विजितेति / विशब्देन पक्षिसामान्यवचनेन तद्विशेषो गरुडात्मा विवक्षितः / तजितोऽपि विशेष एव / एवमन्यत्रापि / न चात्रापि किंचिज्झटिति प्रतीत्यनुगुणं नियमकारणमस्तीति युक्तमेव व्यवधानम् / हिमापहो वह्निरिति हन्तेर्डप्रत्यये रूपम् / तथा च चन्द्रगोमी डप्रकरणे 'हन्तेर्डः' इत्येव सूत्रितवान् / हिमापहो वह्निरिति क्विपि व्यभिचारं दृष्ट्वा 'ब्रह्मभ्रूण-' इत्यादि सूत्रितं चन्द्रगोमिना // गूढार्थमप्रसिद्धार्थ प्रयोग हुवते बुधाः // 11 // यथा'सहस्रमोरिवानीकं भवतो दुःसहं परैः। हरेरिव तवाभान्ति नान्यतेजांसि तेजसि // 10 // . सहस्रगुशब्देन सहस्राक्ष उक्तः / न च गोशब्दस्माणि भूयसी प्रसिद्धिः / हरिशब्देन च सहस्रांशुः सोऽपि न तेन नाम्ना बहुभिरुच्यत इति गूढत्वम् / /