________________ 1 परिच्छेदः / सरखसीकण्ठाभरणम् / गूढार्थमिति / यस्य पदस्य द्वाबी सिद्धश्चासिद्धश्च तवेदप्रसिद्ध प्रयुक्तं तदा मूढार्थम् / अप्रसिद्धार्थ प्रयोगविति / अप्रसिद्धेऽर्थे प्रयोग्रे यस्पेति गमकत्वाद्वहुव्रीहिः / तव तेजसि नान्यतेजांसि भान्तीति योजना / 'गौः शराक्षिपयःस्वर्गपशुमेदवनःसु च' इत्साम्रातोऽपि तथा नाक्षिण प्रयुज्यते यथा पशुमेदादावित्याह-न च गोशब्दस्येति / 'हरिः कृष्णे च सिंहे च मेकार्कभुजगेषु च' इति खसंकेतितस्यापि हरिशब्दस्य न तथा रवी प्रसिद्धियथान्यत्रेत्याह-सोऽपि नेति // खसंकेतप्रक्लप्सार्थ नेयार्थमिति कथ्यते / यथा'मुखांशवन्तमास्थाय विमुक्तपशुपतिना / पङ्कयनेकजनामध्तुका जित उलूकजित् // 11 // अत्र पतिशब्देन दशसंख्या, अनेकजनामेत्यनेन चक्रम्, तद्र इत्यनेन रथस्ताभ्यां दशस्वस्तस्व तुक् बालको लक्ष्मणरतेन जित उलू. कजिदिन्द्रजित् / किं कृत्वा / मुखांशवन्तमास्थाय हनुमन्तम् / किंभूतेन / विमुक्तपशुपतिना विमुक्तेषु पशुपतिना / अत्र पशुशब्देन मोशब्दो लक्ष्यते तेनेषवस्तदिदं वसंकेतकल्फ्तिार्थ नेयार्थमुच्यते // स्वसंकेतेति / कल्पितार्थ नेयार्थमिति सूत्रयित्वा वामनेन व्याख्यातम् / अश्रौतस्यार्थस्य कल्पना कल्पनाकल्पितार्थम् / अस्यार्थः-यत्पदं नानार्थस्वपर्यायलक्षणया विवक्षितप्रतीतिपर्यन्तं नीयते तत्कल्पितार्थमिति केचित् / तदयुक्तम् / खपर्यायेत्यस्य व्यर्थत्वादव्यापकत्वाच / तस्मात्प्रयोजनं विना लक्षणया प्रयुक्तमित्येवार्थः / यदाह काव्यप्रकाशकारः-नेयार्थेयत्त्वशक्तित इति यस्मिनिषिद्धं लाक्षणिकामिति / प्रयोजनं विना रूढं लक्षणापरिग्रहे न दोषः / तथा च द्विरेफरथाङ्गनामाद्रिपदानां रेफद्वयानुगतभ्रमरादिशब्दलक्षणाद्वारेण षट्पदादौ वृत्तिद्धव्यवहारपरम्परानुपातिनीति तेषां प्रयोगोऽयुक्त एव / अत एव 'तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास' इत्यादिकमपि नेयार्थमिति काश्मीरकाः / तदेतत्स्वपदेन दर्शितवान् / मुखस्यांशो हनुरत्राभिमतः / पङ्किरिति दशाक्षरं छन्दः दशसंख्या लक्ष्यते / अनेकजो द्विजश्वक्रवाकस्तस्य नाम चक्रं रथैकदेशस्तद्धारयतीति