________________ काव्यमाला... धारयतॆर्मूलविभुजादित्वात्कः / ताभ्यामिति / पतिरनेकज इति नाम यस्यैत्यर्थात् / तुक् तोकं तोक्ममित्यपत्यनामानि / उपलक्षणतयैकदेशं व्याचष्टे / अत्र पशुशब्देन मोशब्दो लक्ष्यत इति प्रकृतापेक्षया / तेनेषवः प्रत्यायन्त इति शेषः // .. नि यत्पदं निश्चयकृत्संदिग्धमिति तद्विदुः॥ 12 // यथा--. ..... 'नीललोहितमूर्तियों दहत्यन्ते जगत्रयम् / - स एष हि महादेवस्त्रिषु लोकेषु पूज्यते // 12 // .. अत्र वह्निरर्कः शिवो वेति न निश्चीयते // न यत्पदमिति / पदखरूपमेव संदिह्यमानमत्र / तथाहि-स एष हि महादेव इत्यत्र स किमेष हि महादेव इति च्छेदो विधीयतां महादेव इति वा साधकबाधकप्रमाणाभावे संदिह्यते / न च विशेषणनियमहेतुः / वयर्कावपि हि भगवतो नीललोहितमूर्तिभूतौ हिमापही च न निश्चयकृदिति दूषणताबीजप्रदर्शनम् / यदैको विवक्षितस्तदा दोषः / साधुचर इत्यत्रापि 'भूतपूर्वे चरट्' इति चरटप्रत्यये किं पूर्व साधुरथवा चरेष्टप्रत्यये साधुषु चरतीति पदमेव संदिह्यते तेन पदावयवः संदिग्ध इति केनचिदुक्तम् , तदप्यपास्तम् // . .. विपरीतं विरुद्धार्थप्रकल्पनमिहोच्यते / यथा 'अनुत्तमानुभावस्य परैरपिहितौजसः / अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः // 13 // अत्र अनुत्तमा इत्यनेन यथोत्कृष्टस्तथापकृष्टोऽपि / अपिहितमित्यनेन यथा नाच्छादितं तथाच्छादितमिति / अकार्यसुहृदित्यनेन यथाकार्यमन्तरेण सुहृदेवमकार्ये यः सुहृत्सोऽप्युच्यते / अपूर्वाः कीर्तय इत्यनेन यथाद्भुताः कीर्तयं एवमकीर्तयोऽप्युच्यन्ते // . ... विपरीतमिति / विपरीतं प्रकृतोपमर्दकमर्थकल्पनं यत्र / तथा हि-अनुत्तमेत्यादौ प्रकरणादिभिः स्तुतिपरत्वे व्यवस्थिते उत्तमत्वाभावादिना विरुद्धनार्थेन तत्रं