________________ 1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / पर्यवसाययितुं न शक्यते। संशयं युगपद्विवक्षायामपि न विरोधः / इह तु स्तुतिनिन्दयोयौंगपद्यमसंभावितमत एवैकस्य संभवे त्वपरस्य बाध एव / यथा-'चिर कालपरिप्राप्तलोचनानन्ददायिनः / कान्ता कान्तस्य सहसा विदधाति गलग्रहम् // इति गलग्रहशब्दस्य कण्ठप्रप्रतिद्वन्द्विन्यर्थे विवक्षिते पूर्वप्रक्रान्तानन्ददायित्वं बांध्यते / अत्रानुत्तम इति बहुव्रीहितत्पुरुषाभ्यामपिहितमिति ‘वष्टि भागुरिः' इत्यादिना विकल्पेनाकारलोपविधानात् / अपूर्वा इति पक्षान्तरेऽकारपूर्वाः / नियामकसद्भावे तु गुण एव / यथा—'अपूर्व यद्वस्तु प्रथयति विना कारणकलाम्' इति शब्दरूपान्तरमेव विरुद्धोपचायकमित्यन्वयव्यतिरेकाभ्यां शब्ददोषताव्यवस्थितिः॥ अप्रयोजकमित्याहुरविशेषविधायकम् // 13 // * यथा 'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् / .. फालेन लङ्घयामास हनूमानेष सागरम् // 14 // ' अत्र तमालश्यामलमित्यादीनि सागॅरविशेषणानि तानि न हनूमतो लङ्घनेऽतिशयं सूचयन्ति // अप्रयोजकमित्याहुरिति / तदेव हि कवीनामुपादेयं यद्वाक्यार्थे प्रकृष्टकाष्ठां पुष्णाति / अन्यथानङ्गाभिधानेऽवाच्यवचनमेव स्यात्सार्थकत्वादनन्वयत्वाच्च। न वृत्तपूरणमात्रप्रयोजनता नातिशयमिति / साग़रलङ्घनद्वारा हनूमतः प्रकर्षो वाच्यः। न च तमालश्यामलत्वादिविशेषणानि कथंचित्प्रकर्षमर्पयन्ति यानि दूरत्वादीनि तथा न तेषामुपादानम् // .. तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् / यथा____ गल्लौ. लावण्यतल्लो ते लडहौ मडहौ भुजौ।.. नेत्रे वोसट्टकन्दोडमोट्टायितसखे सखि // 15 // अत्र गल्लतल्लादयः शब्दा अव्युत्पत्तिमन्तो देश्या दृश्यन्ते // .. तद्देश्यमिति / अव्युत्पत्तिमत् प्रकृतिप्रत्ययविभागशून्यं लोकमात्रप्रयुक्तं पद