________________ 14 काव्यमाला मनादेयं भवति / तद्विविधम्-अभागं भागवति। आद्यं देश्यम्, द्वितीयं ग्राम्यमिति विभागः / व्युत्पन्चानामन्यादृशी च्छाया देश्यानां च न ताशीति देश्यवेद्यपदसमभिव्याहारे प्रायेण छायावरूप्यं बन्धस्य भवतीति सहृदयहृदयसाक्षिक दोषबीजम् / तल्लमल्पसरः, लडहं मनोहरम् , मडहं कृशम् , वोसह विकसितम्, कन्दोर्ट नीलोत्पलम् , मोटायितं विलासः // अश्लीलामङ्गलघृणावदर्थ ग्राम्यमुच्यते // 14 // अत्राश्लीलमसभ्यार्थमसभ्यार्थान्तरं च यत् / असभ्यस्मृतिहेतुश्च त्रिविधं परिपठ्यते // 15 // तेष्वसभ्यार्थं यथा'छत्राकारशिराः शिरालसरसस्थूलप्रकाण्डो महा न्मध्ये भानुसुताम्रसिन्धुविपुलाभोगो वटः पातु वः / कायैक्ये विकटप्रसारितमहाजई महीसुप्तयो यः खण्डेन्दुकिरीटकैटभजितोः काटश्रियं कर्षति // 16 // तदेतच्छत्राकारशिराः काट इत्यादेरसभ्यार्थत्वादसभ्यार्थम् // अश्लीलेति / देश्यातिरिक्तं लोकमात्रप्रयुक्तं ग्राम्यम् / तत्रिधा---ग्रीडाजा प्सातङ्कदायित्वात् / तत्राद्यमश्लीलं श्रीर्यस्यास्ति तच्छीलम् / सिध्मादेराकृतिगणत्वालच् / कपिलकादिपाठाल्लत्वम् / न श्लीलमश्लीलम् / व्रीडादायित्वेनाकान्तमित्यर्थः। द्वितीयं घृणावदर्थकम् / जुगुप्सादायि प्रत्याय्यमस्येति / तृतीयममङ्गलार्थमातङ्कदाविज्ञाप्यमस्येति कृत्वाश्लीलपर्यायोऽसभ्यशब्दः / सभायां साधुरित्यर्थे तेनापि शास्त्रे व्यवहार इति प्रदर्शनार्थमसत्यशब्देनाश्लीलमन्द्य व्याचष्टे / तत्रासभ्यमिति / अर्थस्यासभ्यत्वात्पदमप्यसभ्यम् / स चार्थः कचित्प्रकृतोऽप्रकृतोऽपि श्लेषोपस्थित एक देशात्स्मृतिमात्रारूढो वा / तत्र यथाक्रममसभ्यादयस्त्रयः। एवममङ्गलादयोऽपि / सूर्यसुता यमुना / अभ्रसिन्धुर्गङ्गा / तयोर्मध्ये 'पारे मध्ये षष्ठ्या वा'. इत्यव्ययीभावः / अर्ध हरेरधं हरस्येति शरीरैक्ये काटशब्दस्यासभ्यार्थत्वे तद्विशेषणानामप्यसभ्यत्वमिति तान्यादाय व्याचष्टे-अत्र छत्राकारेति // .