________________ 1 परिच्छेदः 1] सरखतीकष्प्रभरणम् / असंस्वार्थान्तरं यथा- "विद्यामम्बसतो रात्राधेति या भवतः प्रिया / ' वनितागुडकेशानां कथं ते पेलबन्धनम् // 17 // " तदेतद्या भवतः प्रिया गुबकेशानां पेलबन्धनशब्दाचामसभ्यार्थान्तरत्वादसभ्यार्थान्तरम् // विद्यामिति / या रात्री विद्यामभ्यसतो मन्त्रमावर्तयतस्तव प्रिया समायाति सा यक्षिणी / अतः कथं ते धनं पेलवं कोमलम् / खल्पमिति यावत् / किं तु यक्षिणीप्रसादाद्बहु धनं तवोचितमित्यर्थः / प्रकृतपदानि त्वसभ्यार्थान्तराणि तान्युदख म्याचष्टे-तदेतद्या भक्तः प्रिमेति / असभ्वार्थप्रकाशनमेव षठ्या आक्रोश इत्यर्थः / या भवतः प्रियेति एकं पदं याभो मैथुनं तद्वतः प्रियेत्यर्थात् / योनिर्वनिताया गुह्यस्तस्य केशाः / पेलशब्दो मुष्ठयोः प्रसिद्धः / तत्र बन्धनमिति // असभ्यस्मतिहेतुर्यवा- . _ 'उत्कम्पयसि मां चूत. पिकवाकाटवेन किम् / ___ कृतः कृकाटिकायां ते पादः प्राणेन यास्मता // 18 // तदिदं काटवकृकाटिकापादयोरसभ्यस्मृतिहेतुत्वादसभ्यस्मृतिहेतुता / / उत्कम्पयसीति / हे चूतवृक्ष, कोकिलस्य वाचा कटुत्वेन दुःखदायित्वात् किं मां मापयसि / ननु तव कृकाटिकायां ग्रीवायां पादं दत्त्वा चलिता मम प्राणास्तेन मया जितम् / व्यर्थस्तवायं परिश्रम इति वाक्यार्थो विवक्षितः / काटवशब्दे काट एकदेशः कृकाटिकाशब्दे काटिकेति लोपः / काटः काटिका // लोकेषु यदशस्तार्थमशस्तार्थान्तरं च यत् / अशस्तस्मृतिहेतुश्चामङ्गलार्थ त्रिधैव तत् // 16 // * तेष्वशस्तार्थं यथा.... 'खेटके भक्तसूपस्य वलभ्याः पत्तनस्य च / * अतृप्तोऽहं मरिष्यामि हेहले भाषितस्य च // 19 // ' अत्र मरिष्यामीतिपदमशस्तार्थम् / /