________________ ...काव्यमाला। खेटक इति / अतृप्तः सुखस्येयत्तापरिच्छेदाभावात् / खेटके ग्रामे अद्भक्तं सूपश्चोत्पद्यते तस्य मत्तनस्य नगरस्य या वलभी तस्यां सुहितार्थयोगे षष्ठीनिषेधालिङ्गादनुमीयते तृप्त्यर्थयोगे षष्ठी भवति / अन्ये तु व्याचक्षते-भक्तसूपंपदनामा दक्षिणापथे विषयस्तत्सद्मनि खेटके वलभीनाम कस्यचिद्विरूपाक्षाधिष्ठानस्य तत्रैव पत्तनस्य हेहले इति स्त्रीणामव्याजमन्योन्यप्रेमातिशयगर्भस्य भाषितस्येति // अशस्तार्थान्तरं यथा- प्रवासयति या कान्तं वसन्ते गृहसंस्थितम् / विनाशपथदानेन पिशाची सा न चाङ्गना // 20 // ' अत्र प्रवासयति-संस्थितं-विनाशपथदानेन-पिशाचीपदानामशस्तार्थान्तरत्वम् // प्रवासयतीति / शपथदानेन विना प्रवासयति अन्यत्र पहिणोति गृहे सम्यक् स्थितं प्रियं साङ्गना न, किं तु पिशाचीवदनुचितकारिणीत्यर्थोऽभिमतः / अन्यत्र प्रवासनमुच्चाटनं संस्थान विनाशः विनाशस्य पन्थास्तस्य दानम् / पिशितमनातीति पिशाची / पृषोदरादित्वात् / तदेतद्व्याचष्टे-अत्र प्रवासयतीति / , अशस्तस्मृतिहेतुर्यथा -- - 'मारीचोऽयं मुनिर्यस्य कृत्या कालान्तकालये। . .पन्यां संक्रन्दनादीनां सुतानामाप्तयेऽभवन् // 21 // अत्र मारीचकृत्या कालान्तक संक्रन्दन-पदानामशस्तार्थस्मृतिहेतुत्वम् / मारीचोऽयमिति / मरीचेरपत्यं मारीचः काश्यपः संक्रन्दनादीनिन्द्रादीन् द्वादश पुत्रानादित्यानुत्पादितवान् / तच्च कालान्तकस्य भगवतो महादेवस्यालये याः कृत्याः क्रिया भगवदाधिनरूपास्तासां फलमित्यर्थः / मारीचशब्दे मारकदेशः त्या इति सुबन्तपदे कृत्येत्येकदेशः, कालान्तकालय इत्यत्रान्तकेति, संक्रन्दने शब्द क्रन्दनेति // 'पदमथे घृणावन्तं यदाहाान्तरं च यत् / .. घृणावत्स्मृतिहेतुर्यत्तणावदिह त्रिधा // 17 //