________________ वयापाण्डरों तव / "1 परिच्छेदः / ] सरक्तीकण्ठाभरणम् / तेषु घृणावदर्थ यथा'पर्दते हदते स्तन्यं वमत्येष स्तनंधयः / मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः // 22 // पर्दते हदते वमति निष्ठीवतीति शब्दानां घृणावदर्थत्वम् // पर्दत इति / उत्कौति उत्कारं करोति / निष्ठीवति थूत्करोति / आत्तगर्भा पुनर्वधूरिति बालस्य स्तन्यवमनादिनिदानसूचनम् / अत एव 'न गर्भिण्याः पिबेत्क्षीरं पारगर्भिककृत्तु तत्' इति वैधकम् // घृणावदर्थान्तरं यथा• 'बाष्पक्लिन्नाविमौ गण्डौ विपूयापाण्डरौ तव / प्रियोऽग्रे विष्ठितः पुत्रि मितव!भिरर्चति // 23 // अत्र क्लिन्नगण्डविपूयाविष्ठितवर्चःपदानां घृणावदर्थान्तरम् / / बाप्पेति / विपूयो मुञ्जः / विशेषेण स्थितो विष्टितः स्मितव! हास्यतेजः / तव कपोलौ दृष्ट्वा पुरःस्थितस्तव प्रिय ईषद्धास्यं कुर्वन् कपोलयोर्हास्यज्योत्स्नया पूजां करोतीत्यर्थः / अन्यत्र बाष्पेणोष्मणा क्लिन्नो मृदूभूतः गण्डो व्रणः / विशिष्टः पूयो विपूयस्तेन पाण्डरः / विष्टितो विष्ठा संजातास्य / वर्चः पुरीषम् / यत्स्मरणाद्वाष्पादीनां घृणावति वृत्तिस्तदेव पृथकृत्याह-अत्र क्लिन्नेति // घृणावस्मृतिहेतुर्यथा: 'प्रत्यायन्तो रूढानि मदनेषुप्रणानि नः / / हृदयक्लेदयन्त्येते पुरीषण्डमहद्रुमाः // 24 // अत्र रूढव्रणक्लेदपुरीषण्डपदानां घृणावत्स्मृतिहेतुत्वम् // प्रत्यार्द्रयन्त इति / अन्योन्यलग्नो वृक्षसमूहः षण्डः / रूढानीत्यनेन मदनेषुवर्णानां विशेषितत्वात् / मदनेषुभागमपहाय व्रणभागमात्रेण रूढव्रणस्मृतिर्भवन्तीपदादेवेति विवक्षितवान् / पुरीषण्डशब्दे पुरीषेत्येकदेशः // तदेवं पदोषांलक्षयित्वा क्रमप्राप्तवाक्यदोषा लक्षणीया इति तान्विभजते शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् / .. व्याकीर्ण वाक्यसंकीर्णमपदं वाक्यगर्भितम् // 18 // 2 स. क.