________________ 16 काव्यमाला / द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे / भग्नच्छन्दोयती च द्वे अशरीरमरीतिमत् // 19 // वाक्यस्यैते महादोषाः षोडशैव प्रकीर्तिताः / शब्दहीनमिति / उक्तेनैव प्रयोजनेनासमासद्वन्द्वगर्भबहुव्रीहिसमासौ / एवं गुणादिविभागवाक्येष्वपि प्रयोजनमवसेयम् / भिन्नलिङ्गवचने इत्यादौ तु द्वन्द्वल. क्षणस्य समासस्य पूर्ववर्तिनां भिन्नादिपदानां प्रत्येकमन्वयः। यमनं यतिरिति भग्नच्छन्दो भग्नयतिरिति केचित् / तथा च व्यतिकीर्णोऽर्थः स्यात् / अरीतिमदिति / . रीतिरस्यास्तीति नित्ययोगे मतुप् / नित्ययोगप्रतिपादनं हि दूषकताबीजोद्घाटनायोपपद्यते / अत एव बहुव्रीही लाघवं तत्र नादरः // अथैषां लक्ष्म संक्षेपात्सनिदर्शनमुच्यते // 20 // असाधुवदसाधुमत्त्वस्य प्राथम्याल्लक्षणमाह उच्यते शब्दहीनं तद्वाक्यं यदपशब्दवत् / यथा'नीरन्धं गमितवति क्षयं पृषकै भूतानामधिपतिना शिलाविताने / गाण्डीवी कनकशिलानिभं भुजाभ्या माजन्ने विषमविलोचनस्य वक्षः // 25 // ' अत्र गमितवतीति क्तवतोः कर्मणि, आजन्न इति आत्मनेपदस्याखाङ्गकर्मणि प्रयोगादपशब्दौ / तौ च शिलावितानत्र्यक्षवक्षःसंबन्धाद्वाक्यदोषी जायमानौ असाधुनाम्नः पददोषाद्भिद्यते // - उच्यत इति / अपशब्दत्वं पद एव नियतं वाक्ये संस्कारप्रसक्तेरभावादपशब्दत्वं न वाक्यदूषणम् / तथा हि-'कर्तरि कृत्' इति नियमात्कर्मणि क्तवतुरसाधुः / 'अकर्मकाच्च' इत्यनुवृत्तौ ‘आडो यमहनः' इत्यात्मनेपदमकर्मक एव प्राप्त 'खाङ्गकर्मकाच' इति वाक्यैकवाक्यतापर्यालोचनयाखाङ्गकर्मण्यसाधुः कथं वाक्यदूषणता / नहिं वाक्यान्तःपातितामात्रेण सा युज्यतेऽतिप्रसङ्गादित्याशयोक्तम् / तौ