________________ *1 परिच्छेदः / सरस्वतीकण्ठाभरणम् / चेति / नहि यथा बाधृधातुः परस्मैपदान्त इत्येवासाधुत्वम् , तथात्र पदान्तरसंनिधानापेक्षत्वेऽध्यवसीयते / भूतानामधिपतिना शिलावितान इति यावन्नानुसंधीयते तावद्गमित्रवतीति किं कर्तरि कर्मणिं वेति संदेहानिवृत्तेः / तथा गाण्डीवी विषमविलोचनस्य वक्ष इत्येतावत्प्रतीत्य कथमाजघ्न इत्यस्खाङ्गकर्मणि आत्मनेपदमध्यवसानयोग्यम् / इयमेव हि वाक्यदोषता यदनेकपदनिरूप्यता नाम बाधतीत्यत्रापि किं बाधशब्दात् क्विबन्तात्तिप्, उत बाधृधातुरिति संदेह इति कुदेश्यम् / स्कन्धादिपदसंनिधानेऽपि तस्यानिवृत्तेः / 'तेन त्वामनुनाथते कुचयुगम्-' इत्यादिकमत्रत्यमुदाहरणं प्रमादात् काव्यप्रकाशकृता पददोषेषु लिखितम् / यथा च / 'उदपूतितः को न हीयते' इति रुद्रटेन / तत्र हि 'अपादाने चाहीयरुहोः' इति तसिप्रत्ययनिषेधः / स.च पदान्तरसंनिधानेनैवेति स्वयमालोचनीयम् / शिलावितानत्र्यक्षवक्ष इत्युपलक्षणम् / अधिपतिगाण्डीविशब्दावपि बोद्धव्याविति // . क्रमभ्रष्टं भवेदार्थः शान्दो वा यत्र तत्क्रमः॥ 21 // यथा'तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् / कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ // 26 // अत्र मातङ्गमथ तुरङ्गमिति वक्तव्ये तुरङ्गमथ मातङ्गमित्यर्थः / कान्तिप्रतापौ चोक्त्वा सूर्याचन्द्रमसोः समाविति शाब्दः क्रमग्रंशो 'लक्ष्यते // क्रमभ्रष्टमिति / अर्थादागतः क्रम आर्थः / शब्दादागतः शाब्दः / अर्थक्रमभ्रंशः कथं शब्ददूषणमत आह-इति वक्तव्य इति / मातङ्गो दीयतामथ तद्दानसामर्थ्य नास्ति तदा तुरङ्ग इति वक्तव्ये रचनावैपरीत्यमात्रमत्रापराध्यति / नार्थ इति युक्ता शब्ददोषता // . .. विसंहितो विरूपो वा यस संधिर्विसंधि तत् / यथा• "मेघानिलेनं अमुना एतस्मिन्नद्रिकानने / मञ्जयुद्गमगर्भासौ तर्वाल्युर्वी विधूयते // 27 // '.