________________ 20 काव्यमाला / . अत्र मेघानिलेन अमुना एतस्मिन्नसंहितया विवक्षामीत्यभिसंधानं विसंधिः / मञ्जर्युद्गमग सौ इत्यादौ तु विरूपसंधानं विसंधिः // विसंहित इति / विशब्दो विगमं वैपरीत्यं च द्योतयति / तेनार्थद्वयं संप. यते / 'परः संनिकर्षः संहिता' / तया तत्कार्य लक्ष्यते / संधानं संधिः / अर्धमात्राकालव्यवधानं / तथा च-संहिताकार्यशून्यं संधानं यत्रेत्यर्थः / 'संहितैकपदे नित्या' इति समयादन्यत्र विकल्पः / ततो नासंधावन्तर्भावः / वैरूप्यं द्विविधम् / दुर्वचकत्वम् , अश्लीलत्वं च / तत्राद्यमुपलक्षणतयोदाहृतम् / द्वितीयं यथा-'उड्डीय गगने दूर चलन् डामरचेष्टितः। अयमुत्पतते पत्री ततोऽत्रैव रुचिं कुरु // ननु यदि संधिकार्य वैकल्पिकं कथमत्र दोष इत्यत आह-न संहितामिति / यदि संहिताप्रतिषेधः स्यात्तदा सकृद्विसंधिकरणेन तथावैरूप्यं भवतीति कवेरपराधो न संभाव्यते, यदि तु प्रतिषेधो नास्ति असकृद्वोपादानं तदा व्यक्तवैरूप्यप्रतिभासात्कथं न दोष इत्यर्थः / न विवक्षामित्युपलक्षणम् / विवक्षायामप्यसकृत्प्रयोगो विरस एव / यथा-'तत उदित उदारहावहारी' इति / विशेष वैशेषिके वक्ष्यामः // पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत् // 22 // यथा'उत्कानुन्मनयन्त्येते गम्भीराः स्तनयित्नवः / अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः // 28 // अत्र उत्कानुन्मनयन्तीत्यर्थपुनरुक्तम् / गम्भीराः स्तनयित्नव इति शब्दपुनरुक्तम् // पदं पदार्थश्चाभिन्नाविति / पदमभिन्नमभिन्नतात्पर्याभिधेयमिति विशेषः / तैन तात्पर्यभेदे लाटानुप्रासोऽभिधेयभेदे यमकं च न दोषः / पदार्थोऽभिन्नपर्यायशब्दोपात्त इति शेषः / तेन पूर्वस्माद्विशेषः / खाभिधेयतात्पर्यकपदावृत्तिः पर्यायोपादानं च द्वयमपि शब्दपुनरुक्तमिष्यते। तथा च पारमर्ष सूत्रम्-'शब्दयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्' इति / युक्तं चैतत् / एकस्याभिधेयस्य.द्विरभिधानं दोषः / तच्चाभिधानं तेनैव पदेन पर्यायेण वा संभवतीति शब्दमादायैव तस्य व्यवस्था पुनरुक्तिरत्रैव पदे भवति, तत्कोऽत्र मत्वर्थ इत्यत उक्तम्-यत्र तदिति / यत्र समुदायेऽवयवः पुनरुक्तरूपः स मतुबर्थः / अत एव नानापदनिरूपणीयतया