________________ 1 परिच्छेदः / ] - सरस्वतीकण्ठाभरणम् / 21 वाक्यदूषणमिति स्फुटोऽर्थः / विकल्पितं चेदं लक्षणमेकस्यैव दूषणधुरारोहणक्षमत्वात् / संक्षेपार्थ त्वेकमुदाहरणम् / अर्थमादायैव पुनरभिधानं पुनरुक्तमिति विभावयितुं लक्षणक्रमवैपरीत्येन प्रथममर्थपुनरुक्तमुदाहृतमित्याशयवान् / व्याख्यानेऽपि तमेव क्रममाद्रियमाण आह-अत्रोत्कानिति / उत्क उन्मनाः / उन्मनयन्तीति उन्मनसं कुर्वन्तीति णिचि इष्टवद्भावे टिलोपे च रूपम् / अम्भोधरा इति विशेध्यपदम् / शेषाणि विशेषणानि-गम्भीरा मांसलाः, स्तनयित्नवः शब्दायमानाः, तडित्वन्तः प्रकृष्टतडिद्युक्ताः // ___व्याकीर्ण तन्मिथो यसिन्विभक्तीनामसंगतिः। . यथा___'दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके / मुखं वल्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् // 29 // अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन हंसः पद्मिन्या मुखं चुम्बतीति वक्तव्ये यथानिर्दिष्टरूपे विघट्टितविभक्तिकयुक्तित्वाव्याकीर्णम् / / . व्याकीर्ण तदिति / पदानामक्लेशेऽप्यर्थप्रतीतिहेतुभूताकालावद्विभक्तिव्यवधानादनाकासितविभक्तिसंनिधानाच नाहत्यपदानि विशिष्टार्थज्ञानजननसमर्थानि भवन्ति / विलक्षणलक्षणक्लेशपदानि भ्रमकराणीति वदतामाराध्यानामयमेवाभिप्रायो बोद्धव्यः / विभक्तिव्यवधानमात्रकृतस्तु क्लेशः प्रायेण पदैकवाक्यतायामुत्पद्यते / दण्ड इति / आधारविभक्तिराधेयविभक्तिमपेक्षते, न तु चुम्बतीति क्रियाविभक्तिम् / सापि कारकविभक्तिमाकाङ्क्षति। पभिन्या इति संबन्धविभक्तिकमेव तत्र बोद्धव्यम् / क्लेशेन योऽत्रावगम्यते तमभिमतमर्थमावेदयति-अत्र कर्कशेति / अत एव नापार्थकत्वेन संकरः समुदायार्थस्य प्रतीयमानत्वात् / अस्ति कश्चिदुच्चारणयोर्विशेषो येन वाक्यार्थप्रतीतिः क्वचिदाहत्य भवति / क्वचित्तु नेति स एव विशेषः / संनिधानं व्यवधानमिति व्याख्यायते / कार्यदर्शनादर्शनाभ्यां चोन्नीयत इत्याशयवानाह-यथोक्तरूपेणेति(?)॥ - * वाक्यान्तरपदैमिश्रं संकीर्णमिति तद्विदुः // 23 // - 1. अयं प्रतीको मूले तु नोपलभ्यते, तेन कदाचिदयं प्रतीकपाठः प्रक्षिप्तो भवेत.