________________ काव्यमाला / - यथा का खाअइ खुहिओ कूरं फेल्लेइ णिब्भरं रुहो / . ..... सुण गेण्हइ कण्ठे हक्केइअ णत्ति ठेरो // 30 // . .[काकं खादति क्षुधितः कूरं फेल्लति निर्भर रुष्टः / .. . श्वानं गृह्णाति कण्ठे हक्कायति नप्तारं स्थविरः // ] - अत्र काकं क्षिपति, कूरं खादति, कण्ठे नप्तारं गृह्णाति, श्वानं भीषयते, इत्यादौ वक्तव्ये यथोक्तपदविन्यासः संकीर्यते // वाक्यान्तरपदैरिति / वाक्यान्तरसंवलितानि पदानि वाक्यान्तरमनुप्रविश्य तथा प्रतीतिं विघ्नन्ति, यथा समुदाय एव दूषितो,भवति // काकमिति / कूरं भक्तं क्षुधितः खादति, काकं च निर्भरं रुष्टः सन् क्षिपति, श्वानं च निवारयति, नप्तारं च कण्ठे गृह्णाति स्थविरजातिः // आकाङ्क्षाक्रमेण किंचित्पदं कस्यचिद्वाक्यस्य संबद्धमिति ज्ञायत एव / तदाह-अत्र काकं क्षिपतीति / शब्ददोषत्वं प्रकाशयतिइति वक्तव्य इति / यथोक्तपदविन्यास इत्यनेन संकीर्यत इत्यस्यार्थो विवक्षितः / एवंप्रकारः संकर इत्यर्थः / विजातीयसंवलने लोके संकरव्यवहारः // विभिन्न प्रकृतिस्थादि पदयुक्त्यपदं विदुः। यथा'आउजअ पिट्टिअए जह कुकुलि णाम मज्झ भत्ताले / पेक्खन्तह लाउलकण्णिआह हा कस्स कन्देमि // 31 // ' . [आवयं पीज्यते यथा कुक्कुरो नाम मम भर्ता / - प्रेक्षत राजकुलकर्मकरा अहह कस्य क्रन्दामि // ] तदेतत्प्रकृतिस्थकोमलकठोराणां नागरोपनागराणां ग्राम्याणां वा पदानामयुक्तरपदम् // विभिनेति / षोढा पदं भवति-प्रकृतिस्थम् , कोमलम् , कठोरम, ग्राम्यम् , नागरम् , उपनागरं च। तत्रानेकदीर्घखरकृतगौरवमेकसंयोगकृतगौरवं पदं प्रकृ 1. टीकादर्शनेन 'इति वक्तव्ये' इति भवेत्. 2. 'ज्झि' इति सटीकपुस्तकपाठः.