________________ 1 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / बाधते इति बाधतिबाधस्तस्य संबोधनं बाधतिबाधेति / ते तव / वचनमिति शेषः' इति, तदसत् / नेयार्थत्वप्रसङ्गात् / अन्ये तु 'बाधतिर्बाधते यथा' इति पठन्ति / इदं तत्त्वम् / विद्यमानस्यार्थवत्त्वस्याविवक्षायां गवित्ययमाहेत्यादाविव प्रातिपदिकसंज्ञा न प्रवर्तते // कविमिर्न प्रयुक्तं यदप्रयुक्तं तदुच्यते // 7 // यथा.... - 'कामचीकमथाः केऽमी त्वामजिह्वायकीयिषन् / ... स सस्ति किं वचन्तीमे कम्बः शम्बं घरिष्यति // 2 // अत्र 'अचीकमथाः', 'अजिह्वायकीयिषन्', 'सस्ति', 'वचन्ति', 'घरिष्यति', 'कम्बः', 'शम्बम्' इति शब्दानुशासनसिद्धान्यपि कविमिर्न प्रयुज्यन्ते // : कविभिरिति / अस्ति हि किंचित्पदं यत्राप्रयोज्यत्वेनैव हेयता / यद्येवं लोके प्रयुज्यमानस्य साधुतैव प्रसक्ता इत्यतं उक्तम्- कविभिरिति / काव्ये यस्याप्रयोज्यत्वमेव दुष्टत्वबीजं तदित्यर्थः। तथाभूता च पदजातिरलंकारकारसमयादवसीयते / तथा चैकेन पुंदैवतशब्दोऽपरेण चीर्णशब्द उदाहृतः / एवमन्यदप्यप्रयुक्तमित्याशयवान्किचिदुदाहरति कामचीकमथा इति / उदाहरणत्वान्नैकोऽत्र लोको गवेष्यः / एकपदमात्रप्रयोगस्तु त्याज्यः समयविरोधाभावादित्याराध्याः। 'अचीकमथाः' इति कमेर्णिङन्तस्य लुङि चङि द्विवचनसन्वद्भावदीर्घत्वह्रखत्वणिलोपेषु रूपम् / कां नायिकां कामितवानसीत्यर्थः / अमी च के / त्वामात्मनो हायकमेषितुमिष्टवन्तः / ह्वायकशब्दात् क्यच् / ततः सन् / ततो लङि अजिह्वायकीयिषन्निति रूपम् / स कश्चित् सस्ति खपिति / षस सस्तैि खप्ने' इति धातों रूपम् / कम्बः शम्बमिति / कंशंशब्दौ जलवाचको ताभ्याम् / 'कंशंभ्यां बभयुस्तितुतयसः' इति मत्वर्थीयो बप्रत्ययः / तत्रायेन जलधरो जलाशयं सेक्ष्यतीत्यर्थः / 'शम्बः कम्बन्' इति क्वचित्पठ्यते / तत्र कल्याणवान् कपालिनं सेक्ष्यतीत्यर्थो बोद्धव्यः / 'घृ सेचने' इत्यस्य धातोपरिष्यतीति रूपम् / स हि धातुः 'घृतघृणाधर्मेभ्यो नान्यत्र युज्यते' इति पूर्वाचार्याः / कविभिरित्यनेनासाधुशङ्का व्यावर्तितेत्याह-शब्दानु शासनसिद्धान्यपीति // ..... . ..