________________ काव्यमाला / ' , विभागमन्तरेण विशेषलक्षणानवतारात्पददोषान्विभजते- .. असाधु चाप्रयुक्तं च कष्टं चानर्थकं.च यत् / 'अन्यार्थकमपुष्टार्थमसमर्थ तथैव च // 4 // - अप्रतीतमथ क्लिष्टं गूढं नेयार्थमेव च / संदिग्धं च विरुद्धं च प्रोक्तं यच्चाप्रयोजकम् // 5 // " देश्यं ग्राम्यमिति स्पष्टा दोषाः स्युः पदसंश्रयाः। असाध्विति / मुख्यार्थहतौं मिथोऽनपेक्षासूचनया समासः / अत एव लाघवेऽनादरः / कथं पदप्रतीकदोषा. न. गण्यन्त इति शङ्कामंभिप्रेत्याह-स्पष्टा इति / पदसंश्रयाः पदान्वयव्यतिरेकानुविधायिनः। एवं वाक्यादावपि गुणादावपीदमेवाश्रितत्वम् // ... विभागप्रयोजनमाह- ... अथैषां लक्षणं सम्यक्सोदाहरणमुच्यते // 6 // अथैषामिति / परीक्षा प्रतिजानीते-सम्यगिति / लक्षणदोषशून्यं लक्षणानुपपत्तिनिर्णजनमेव हि परीक्षापदार्थः / कथमेतत्संपत्स्यते इत्यत आह-सोदाहरणमिति॥ . शब्दखरूपलक्षणः प्रथमनिरस्यो दोष इत्याशयेन प्रागुद्दिष्टस्यासाधोर्लक्षणमाह शब्दशास्त्रविरुद्धं यत्तदसाधु प्रचक्षते / - यथा.'भूरिभारभराक्रान्त बाधति स्कन्ध एष ते / तथा न बाधते स्कन्धो यथा बाधति बाधते // 1 // अत्र बाधतेरात्मनेपदित्वाद् 'बाधते' इति स्यात्, न पुनर् ‘बाधति' इति / शब्देति / शब्दाः शिष्यन्ते प्रकृतिप्रत्ययविभागपरिकल्पनया ज्ञाप्यन्ते येन तच्छन्दशास्त्रं त्रिमुनिव्याकरणं तेन विरुद्धं तदानातप्रातिखिकविशेषपंरित्यक्तमतों न देशीयपदानामसाधुत्वम् / तथा च प्राच्यैः--'नाथ ते कुचयुगं पत्रातं मा कृथाः' इति अन्यकारकवैयर्थ्यमिति, 'सलीलपामिद्वयलोलनालमानर्तिताताम्रदलं दधन्तीम् इति च तादृशमेवोदाहृतम् / अत्र केचिदाहुः– बाधतिधातुं. संस्कारप्रच्यावनेन