________________ काव्यमाला / हुरमृतां कलाम् // ' इति / तस्य ब्रह्मणोऽनाद्यविद्यावशादाद्यः परिणामः पश्यन्तीरूपो जायते / स हि वर्णविभागादक्रमः खयंप्रकाशश्च / पूर्वापरे स्वावस्थे पश्यतीति पश्यन्तीत्युच्यते / ततः परमविद्योपादानादन्तःसंकल्परूपक्रमवान् श्रोत्रग्राह्यवर्णाभिव्यक्तिरहितस्तृतीयः परिणामो मध्यमारूपो जायते। सा किल द्वयोः परिणामयोर्मध्ये सदा तिष्ठतीति मध्यमेत्युच्यते / अन्तरं दूरप्रसृतायामविद्यायां स्थानकरणप्रयत्नव्यज्यमानश्रोत्रसंवादिवीणादुन्दुभिवादपरिचयगद्गदाव्यकाकारादिवर्णसमुदायात्मकस्तृतीयः परिणामो वैखरीरूपो जायते / विशिष्टं खमाकाशं राति प्रयच्छतीति विखरो देहेन्द्रियसंघातः / तथा च श्रुतिः-'न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति / अशरीरं वा व सन्तं प्रियाप्रिये न स्पृशतः // ' इति / तत्र भवा वैखरीति / तदेतासामवस्थानामाद्यास्तिस्रो नित्या अतीन्द्रियाः / तदुक्तम्-'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा / वैखरी वाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धना // केवलं बुद्ध्युपादानक्रमरूपानुपातिनी / प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते // अविभागात्तु पश्यन्ती सर्वतः संहृतकमा। स्वरूपज्योतिरेवान्तःसूक्ष्मा सा सनपायिनी॥ इति / श्रुतिरप्याह-चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः / गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति // ' इत्यादिकमागमसमुच्चयादेवावसेयम् / का पुनस्ता वाचो यासामियमधिष्ठात्रीत्यत उक्तम्"ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् / यस्याः' इति / आस्पदमधिष्ठानमवच्छेदः / ध्वन्यादिभिरवच्छिन्ना परा वाक् तयवहारहेतुः / साहित्यप्रसिद्धाभिधानध्वननलक्षणव्यवहारकारित्वमेकस्मिन् वर्णे न निरूप्यते इति बहुवचनम् / पदवाक्ययोरस्ति प्रत्येकमपि तथाभाव इति ताभ्यामेकवचनमुपात्तम् / तदयमत्र तात्पर्यसंक्षेपः। साहित्यखरूपनिरूपणाय किलैष अन्थारम्भः / साहित्यं च शब्दार्थयोः संबन्धः / तत्र शन्द एव क इत्यपेक्षायामयं विभागो ध्वनिरित्यादिः / अर्थस्तु स्तम्भकुम्भादिलक्षणो लोके शास्त्रे च प्रसिद्धः। संबन्धः कश्चिदनादिः / सर्वखायमानस्तु संबन्धो नान्यत्रेयस्मिन्नायतते / स चतुर्विधः-दोषहानम् , गुणोपादानम् , अलंकारयोगः, रसामियोगश्चेति // प्रेक्षावत्प्रवृत्त्यङ्गसंबन्धप्रयोजने दर्शयति निर्दोष गुणवत्काव्यमलंकारैरलंकृतम् / ... __रसान्वितं कविः कुर्वन्कीति प्रीतिं च विन्दति // 2 // निर्दोषमिति / प्रीतिः संपूर्णकाव्यार्थखादसमुत्थ आनन्दः काव्यार्थभावनाद