________________ काव्यमाला। श्रीमन्महाराजाधिराजश्रीभोजदेव विरचितं सरखतीकण्ठाभरणम् / श्रीरत्नेश्वरविरचितंया रत्नदर्पणाख्यया व्याख्यया समेतम् / प्रथमः परिच्छेदः। एकेन यस्य यमिनः प्रमदेव देहमन राजति पुमानिव चापरेण / तत्त्वक्रमादथ च न प्रमदा पुमान्वा श्रेयांसि वर्षयतु स स्मरशासनो वः श्रीरामसिंहदेवेन दोर्दण्डदलितद्विषा / - क्रियतेऽवन्तिभूपालकण्ठाभरणदर्पणः // कण्ठाभरणमनर्थ्य वाग्देवीरत्नदर्पणोत्सङ्गे / अस्मिन्पश्यतु निभृतं प्रकाशसर्वाङ्गलावण्यम् // प्रन्थारम्मे समुचितेष्टदेवतानमस्कारेण शिष्टाचारमनुवर्तते ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् / / .. यस्याः सूक्ष्मादिभेदेन वाग्देवी तामुपास्महे // 1 // ध्वनिरिति / वाचामधिष्ठात्री देवी द्योतमाना स्वप्रकाशशब्दब्रह्मरूपा भारती। कथमुपास्यते / सूक्ष्मादिमेदेन ध्वन्यादिभेदेन च विवक्षितो नमस्कारः / शब्दब्रह्म'णश्चतस्रो भिदा भवन्ति / सूक्ष्मा, पश्यन्ती, मध्यमा, वैखरी चेति / तत्राविकारदशा सूक्ष्मा / सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा सम्यकप्रयोगपरिशीलनात्मना कर्मयोगेन मननादिना ज्ञानयोगेन च सम्यगधिगम्यते / 'सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः / अन्त्या कला हि सोमस्य नात्यन्तमभिभूयते // तस्यां विज्ञातमात्रायामधिकारो निवर्तते। पुरुषे षोडशकले तामा