________________ 742 काव्यमाला। 'चतुर' इत्यनेन शास्त्रीयलौकिकव्यवहारवेदिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमुच्यते / 'उदात्त' इत्यनेन आशयविमूल्योराभि'जात्ययौवनादीनां चोत्कर्षः प्रकाश्यते / चतुर्वर्गफलं प्रबन्ध को वा न बान्धवीयतीत्यनेन श्रोतृणां रामादिवद्वर्तितव्यम् , न रावणादिवदिति विधिनिषेधनिबन्धनस्य प्रबन्धस्याभीष्टतमत्वमाख्यायते / मुखं प्रतिमुखम्' इत्यादिना पञ्चाङ्गं प्रबन्धशरीरमभिधीयते / तदङ्गानि चोपक्षेपपरिकरादीनि चतुःषष्टिरपि मुखादिष्वेवान्तर्भवन्ति / अतस्तद्वदेव पञ्चसंध्येकमपि वाक्यं प्रबन्धव्यपदेशमासादयति / तद्यथा 'कथमपि कृतप्रत्यासत्तौ प्रिये' इति मुखम् , 'स्खलितोत्तरे' इति प्रतिमुखम् , 'विरहकृशया कृत्वा व्याज प्रजल्पितमश्रुतम्' इति गर्भः, 'असहनसखीश्रोत्रप्राप्तिप्रसादससंभ्रमं विवलितदृशा' इति विमर्शः, 'शून्ये गेहे समुच्छसितं समेतम्' इति निबर्हणम् / एतेन प्राचीनप्रबन्धार्थेऽपि एकवाक्योक्तेन प्रबन्धत्वमित्याख्यातं न भवति / तद्यथा 'तुरगनिचयव्यग्रानूर्वीमिदः सगराध्वरे कपिलमहसा रोषात्प्लुष्टानपि प्रपितामहान् / अगणिततनूतापस्तत्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्भिश्चिरादुददीधरत् // 525 // 'अविस्तृतमसंक्षिप्तम्' इत्यनेन विस्तारमीरूणां कथारसविच्छेदशदिनां च चित्तमावय॑ते / 'श्रव्यवृत्तम्' इत्यनेन वृत्तान्तरैराश्वासकादि 1. 'प्रबन्धे' ख. 2. 'निबन्धस्य' क. इ. 'तदा' क., (मुहुः)' ख. 4. 'श्रच्यान्तरित्यनेन' ख.