________________ 741 5 परिच्छेदः / सरस्वतीकण्ठाभरणम् / कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः / यथा-.' 'अथाजिनाषाढधरः प्रगल्भवाम्ज्वलन्निव ब्रह्ममयेन तेजसा। / - विवेश कश्चिजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा // 520 // उत्थापकः, परिवर्तकः, संलापकः, संघात्यकः, इति चत्वारि सात्वत्यनानि / तेषु परस्परीभूतार्थेषत्थापनमुत्थापकः / यथा'प्रहर मम तु कायं प्राक्प्रहारप्रियोऽहं. मयि तु कृतविघाते किं विदध्याः परस्मात् / झटिति विततबह्वङ्गारभाखत्कुठार __ प्रविघटितकठोरस्कन्धबन्धः कबन्धः // 521 // . प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः / यथा'मुनिमभिमुखतां निनीषवो याः समुषययुः कमनीयतां गुणेन / मदनमुपदधे स एव ताभ्यो दुरधिगमा हि गतिः प्रयोजनानाम् // 522 // सदसि नानावाक्यैमिथोऽधिक्षेपः संलापकः / यथा 'कथमपि न निषिद्धो दुःखिना भीरुणा वा '' द्रुपदतनयपाणिस्तेन पित्रा ममाघ / तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते धारयैनम् // 523 // कार्यमन्त्रानुभावदेवादिभिः संघातमेदः संघात्यकः / यथा... ., 'अपश्यद्भिरिवेशानं रणान्निववृते गणैः / / मुह्यत्येव हि कृच्छ्रेषु, संभ्रमाधिगतं मनः // 524 // 1. 'अपि तु ख.