________________ काव्यमाला / अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम् / यथा'राहोश्चन्द्रकलामिवाननचरी दैवात्समासाद्य में .. दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् / आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् 515' - नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसंप्रहारः संस्फोटः / यथा 'कृष्टा येन शिरोरुहेषु पशुना पाञ्चालराजात्मजा " : येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः। यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा 'न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः // 516 // नर्म, नर्मस्फिजः, नर्मस्फोटा, नर्मगर्भ, इति चत्वारि कैशिक्यङ्गानि॥ तेषु स्थापितशृङ्गारं वचो विचेष्टितं वा सपरिहास नर्म / यथा'वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे। कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः 517' प्रथमसंभोगे नवावस्थानं संभोगाश्रयवाक्यादि कर्म नर्मस्फिजः। यथा'प्राप्तासौ वृषपर्वणः प्रियसुता सङ्केतखण्डे नवे . " वृष्टिः सेयमनम्बुदाऽमृतमयी गात्राणि मे सिञ्चति / किं जानासि विनोदयिष्यति मनः संतप्तमेवाद्य मे... दुर्वात्येव निवर्तयिष्यति न भोस्तां देवयानी प्रति॥५१८॥' आविर्भूताभिलाषानुभाक्योरकाण्डसंभोगभङ्गो नर्मस्फोटः / यथा'इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि / ... एवंविधेनाहवचेष्टितेन, त्वं प्रार्थ्यसे हस्तगता ममैभिः 515