________________ 5 परिच्छेदः / ] . सरखतीकण्ठामरणम् / 743 परिसमाप्तिरिति परिश्रान्ताः श्रोतार अश्वास्यन्ते, सगादिसनिवेशादिवत्संदर्भ चाश्चादयो विभाव्यन्ते / 'पुरोपवने' इत्यादिना च देशकालपात्रसंपदुपवर्णनादालम्बनोद्दीपनविभावाः कथ्यन्ते / उद्यानसलिलक्रीडायुपलक्षणेन कामिनीनां दिवाचेष्टाः, मधुपानरतोत्सव इत्यनेन च रात्रिचेष्टा उच्यन्ते / विप्रलम्भा इत्यनेन चत्वारोऽपि प्रथमानुरागादयः परामृश्यन्ते / 'विवाह' इत्युपलक्षणेन प्रथमानुरागो विवाहान्तः, मानः प्रेमान्तः, प्रवासः संगमान्तः, करुणः प्रत्युज्जीवनान्तः, प्रबन्धे कर्तव्य इत्युपदिश्यते / 'मन्त्रदूत' इत्यादिपुरुषकारायत्तसिद्धिसूचनेनायूनतादिनिरासानायकस्य सत्त्वोत्कर्षः प्रकाश्यते / 'नावर्णनं नगर्यादेर्दोषाय' इत्यादिना तु पुरुषार्थासत्त्वोपकारित्वेन शैलहूद्यानचन्द्रोदयमधुपानरतोत्सवादीनां मन्त्रदूतप्रयोगाजिनायकाभ्युदयादीनां च नियमेन प्रयोगः, शेषाणां तु प्रबन्धशरीरानुरोधेनेति प्रतिपाद्यते / 'गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् / निराकरणम्' इत्यनेन गुणवता भाव्यं न गुणद्वेषिणेति ज्ञाप्यते / 'वंशवीर्यश्रुतादीनि' इत्यादिना पुनराभिजात्यौद्धत्यशौण्डीर्यवीर्यादय एव शत्रोर्वर्णनीया न त्ववच्छेदहेतवो न्याय्याचरणविनयादय इति प्रत्याय्यते / “धिनोति नः' इति त्वयमेव पक्षः श्रेयानिति ग्रन्थकारेण स्वाभिप्रायः प्रकाश्यते // इति निगदितभनयानङ्गसर्वस्वमेतदू विविधमपि मनोभिर्भावयन्तोऽस्य मेद॑म् / 1. विवाहा' क.ख. 2. 'प्रबन्धः' ख. 3. 'पुरुषाकारायत्त' क. 4. 'सूचनेन द्यूततादिनिरासात्' ख.५. 'पुरुषार्थासन्नोपकारकारिस्वेन' क., पुरुषार्थासन्नोपकारित्वेन' ख. 6. 'मन्त्रदूतप्रयोगाद्यनायकाभ्युदयादीनां च' क., 'मजदूतप्रयोगातिनायकाभ्युदयादीनां च' ख. 7. 'शौटीर्यवीर्यादयः' क.ख. 8. 'खेदम्' क.