________________ काव्यमाला / माक्षिपति / न चेह लक्षितलक्षणाविरुद्धलक्षणादयोऽपि वर्तन्ते, यथा 'प्रिये जने नास्ति पुनरुक्तं', 'खल्पैरसावपि न दृश्यत एव कालैः' इति / न च शब्दन्यायविलकिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते / यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः // न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् / यथेन्दुरिव ते वऋमिति कान्तिः प्रतीयते / न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते // 177 // तदुपश्लेषणार्थोऽयं लिम्पतिर्धान्तकर्टकः। वर्षणार्थश्च विद्वद्भिरुत्प्रेक्ष्यत इतीक्ष्यताम् // 178 // मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः // 179 // ___ वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो भवति / तत्रानौचित्यपरिहारो यथा-मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाहुष्यन्तःशकुन्तलाखीकारं विसस्मार, नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण तदंभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्धायामपि 1. 'इह लक्षणाविरुद्ध-' ख. 2. 'शब्दान्यविलम्बिनी' क., 'शब्दान्यपविलम्बि. तप्रायविलम्बिनी' ख. 3. 'तद्यथा' ख. 4. 'नानवस्थितानुरागतया' क.ख. 5. 'तदनभिधाय' ख. नास्ति..