________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, अवसिते च समीहिते तया विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासंनिधेर्वत्सराजस्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे; नीचाक्षः खामिकार्य साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा खामिकार्यापेक्षयाहमेवैतावन्ति दिनानि जीवितः, अद्य तु कृतखामिकार्यस्तामेवानुगच्छामीति शिवगणः शूद्रकनिमित्तां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमावदानदर्शनापडुतप्रियव्यलीको तद्वियोगकातरा तत्रैवात्मानं प्रतिचिक्षेपेति विक्रान्तशुद्रके, इति तदेतद्दोषहानम् // गुणोपादानं तु सम्यग् गुणयोगेन संविधाने सुसूत्रता, अपि च चतुर्वृत्त्यङ्गसंपन्नमिति चतस्रो वृत्तयो भारती आरभटी कैशिकी सात्त्वती चेति / तत्र या वाक्प्रधाना नृपतिप्रयोज्या स्त्रीवर्जिता संस्कृतयाथ युक्ता / खनामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्तिः // यत्रावपातक्षुतलचितानि छेद्यानि मायाकृतमिन्द्रजालम् / चित्राणि युद्धानि च तत्र वृत्तिमेतादृशीमारभटीं वदन्ति / या श्लक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसंगता या बहुगीतवृत्ता / कामोपभोगप्रचुरोपचारा तां कैशिकी वृत्तिमुदाहरन्ति // या सात्त्विकेनात्मगुणेन युक्ता त्यागेन वृत्तेन समन्विता च / हर्षोत्कटा संहृतशोकमारा सा सात्त्वतीति प्रथितेह वृत्तिः // आसामङ्गानि षोडश-तेषु प्ररोचना, वीथी, प्रस्तावना, प्रहसनमिति चत्वारि भारत्यङ्गानि // 1. 'मरीचाक्षः' ख. 2. 'प्रियव्यलीकात्' ख. 3. 'संस्कृतया प्रयुक्ता' ख.. 47 स.क.