SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 735 नव्यापारं परार्थ तस्यां क्रियायां न्यग्भवति / तेनायं कर्ता खक्रियासिद्धावाकुलः कथमुपमानत्वेनोपमेयत्वेन वान्यदपेक्षितुं क्षमते / एवं तर्हि योऽङ्गानि लिम्पति तेन क्रियोपलक्षितेन क; तुल्यं तम इत्यर्थः प्रतिपत्स्यते / मैवम् / क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्यायबलाप्रतिपत्तिः / शब्दो हि मुख्यागौणीलक्षणाभिरर्थप्रकरणादिसंपादितसा. चिव्यादाभिस्तिसृभिरेव वृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति / तद्यथा-गौरित्ययं शब्दो मुख्यया वृत्त्या सास्लादिमन्तमर्थ प्रतिपादयति स एव तिष्ठन्मूत्रत्वादिगुणसंपदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणी वृत्तिमनुभवति / यदा तु मुख्यया गौण्या वोपात्तक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया खार्थाविनाभूतमर्थान्तरं लक्षयति यथा गङ्गायां घोषः प्रतिवसतीति गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्ति?षकर्तृकायाः प्रतिवसनक्रियाया अधिकरणमावं गन्तुमसमर्थः खार्थाविनाभूतं तटं लक्षयतीति / न चैतासामिहान्यतमापि वृत्तिः संगच्छते / तथा हि लिम्पतेः क्रियावचनत्वान्न मुख्या / नापि क्रियाकोरसादृश्येन शुक्तिकादौ रजतादिवत्तद्भावापत्तिः क्रियागुणानां कर्तर्यसंभवात् / साक्षादिव प्रयोगाच्च न गौणी क्रियायाश्च खयमेव धर्मरूपत्वात् / बुद्धिः पश्यतीतिवदन्यधर्माणामन्यत्राधिरोपणमुपचार इति न गौणीभेद उपचारिता / इक्शब्दस्य चासादृश्येऽपि दर्शनान्न लक्ष्येत / यदि हीवशब्दः सादृश्यमेव विद्योतयति तदा लिम्पतिक्रियायाः सत्त्वभूतेन तमसा सादृश्यं न संभवतीति खार्थाविनाभूते कार 1. 'स्वक्रियासिद्धा वा कुतः' ख. 2. 'चान्यदपेक्षितं' क., 'वान्यदपेक्षितं ख. 3. 'साचिव्यादिभिः' क.ख. 4. 'यत्तटं' क. 5. 'क्रियावचनत्वान्मुख्या नापि क्रियाकर्तारः सादृश्येन' क. 6. 'उपचरिता' क., 'उपचरितः' ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy