________________ 734 . काव्यमाला / तदाह 'सिद्धस्य हि समानार्थमुपमानं विधीयते। . तिङन्तार्थस्य साध्यत्वादुपमार्थो न विद्यते // न चोपमायामेवेवशब्दो भवति / तद्यथा कथमिवैतद्भविष्यति / अस्तु वा लिम्पतितमसोरुपमानोपमेयभावस्तथापि तुल्यधर्मो न दृश्यते य उपमानोपमेयभावाय प्रभवति / किमन्येन लेपनमेव भवति तर्हि लिम्पतिना केन भाव्यम् / न हि लेपनं लिम्पेः पृथग्भवितुमीष्टे / ननु चेह द्वयं चकास्ति धातुर्लिम्पति तदर्थश्च लेपनम् / मैवम् / एवं सति लिम्पतिरिवेति स्यात् न तु लिम्पतीवेति / अथ यथा राहोः शिरः इति भेदाभावेऽप्यवयवावयविभावस्तथेह धर्मधर्मिभावो भविष्यति / मैवम् / उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तन्मनुते स कथं नोन्मत्तः स्यात् / / तदुक्तम्-'स एव धर्मो धर्मी चेत्युन्मत्तोऽपि न भाषते / ' अस्तु तहि तिङ्गाच्यः कर्ता उपमानमिति चेत् न्यग्भूतोऽसौ क्रियापदे / कथं पुनरसौ क्रियापदे न्यग्भूतो भवति / श्रूयतां, षडास्तिङन्तेन प्रतीयन्ते क्रिया कालः उपग्रहः साधनं सङ्ख्या पुरुषश्चेति / तेषु क्रियाकालात्मनेपदपरस्मैपदनिमित्तानि प्रकृतिरमिधत्ते प्रत्ययः साधनं, सङ्ख्यां पुरुषं च / एतेषां तु क्रियार्थत्वाक्रिया प्रधान, कालात्मनेपदनिमिते क्रियाविशेषणत्वेन, सङ्ख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः / साधनं पुनः 'प्रकृतिप्रेत्ययौ साथ सह ब्रूतः' इति न्यायात् 'प्रधानभूतमपि भूतं भव्यायोपदिश्यत' इति न्यायेन क्रियासिद्धावुत्प.. 1. 'नलिम्पतिना' क. 2. 'शब्दार्थश्च' क. 3. तिडां यः' ख. 4. 'क्रियावयवे' ख. 5. 'प्रकृतिप्रत्ययार्थौ' ख. 6. 'यत्र सहाथ ब्रूते' क.