________________ 5 परिच्छेदः। सरस्वतीकण्ठाभरणम् / श्लेषोपमा यथा'क्षिप्तो हस्तावलमः प्रसभममिहतोऽप्याददानोंऽशुकान्तं * गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमणः / आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः .. कामीवा पराधः स देहतु दुरितं शाम्भवो वः शरामिः 499' .. अत्र करुणो रसः श्लेषोपमासामर्थेनाविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते // श्लेषव्यतिरेकेण यथा'पद्भ्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा _____ पार्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विल्याधरम् / सुप्तानप्यवबोध्य युष्मदहितान्भूयोऽपि भुङ्क्ते बने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना // 500 // " . अत्र श्लेषसामर्थ्यादपारमार्थिकी शृङ्गारंप्रतीतिः पारमार्थिकेन बीभसरसेन व्यावर्तमाना तद्धर्माणां मिथः संसर्गबुद्धिमुत्पादयति / / श्लेषरूपकेण यथा- . 'अन्नैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः। एताः शोणितपककुङ्कुमजुषः संभूय कान्तैः पिब त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः // 501 // ' अत्र बीभत्सो रसः शब्दसामर्थ्याक्षिप्तेन शृङ्गाराभासेन संकीर्यते // 3. 'भुक्ते' ख. 4. 'इह' क.ख. ... ... 'हरतु' ख. 2. 'विलुप्याधरम्' ख. 5. 'प्रतीतिः' घ. 6. 'संसर्गवद्बुद्धिम्' क.