________________ 730 काव्यमाला। श्लेषाद्यलंकारसामर्थ्यात्तु क्वचिदवास्तवमपि रसाभाससंकर कवयः प्रकल्पयन्ति // स रूपकश्लेषेण यथा 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। ... गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा // 497 // ' . अत्र बीभत्सो रसः श्लेषरूपकसामर्थ्यादविद्यमानेनापि शृङ्गाररसेन संकीर्ण इव प्रतीयते // श्लेषानुविद्धार्थान्तरन्यासेन यथा'ट्ठोट हो असिलअघाओ देवि मउलावइ लोअणभउहो वे / सुपओहरकुंवल अपत्तलच्छि कह मोह णं जणइ ण लग्गवच्छि।' [दष्टौष्ठ हो असिलताघातो देवि मुकलयति लोचनभ्रुवौ द्वे अपि / सुपयोधरकुवलयपत्रलक्ष्मीः कथं मोहं न जनयति न लग्ना वक्षसि // ] अत्र वीरो रसः श्लेषसामर्थ्यादविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते // . 1. 'वर्णयन्ति' क., 'कल्पयन्ति' ख., 2. 'अस्यार्थस्तत्र वीररसे तावत्-हो इत्याश्चर्यसंबोधने / दष्टौष्ठअसिलताघातः खड्गप्रहारस्तवापि मुकुलयति लोचनभ्रुवौ द्वे अपि / अथ च सुष्ठु पान्ति ये योधास्तान् रात्यादत्ते तादृशानेव महावीरान्स्वीकरोति ईदृशी या कुवलयप्राप्ता सकलमेदिनीमण्डलप्राप्ता लक्ष्मीः कथं मोहं न न जनयति / लग्ना वक्षसि काका जनयत्येवेत्यर्थः। अपि च विप्रलम्भशृङ्गारे हे दष्टौष्ठ पीताधरामृतः भोगशीलक, घातः अर्थात्तव प्राणसमाया नखाघातोऽपि ते तव मुकुलपति लोचनभ्रुवौ द्वे अपि अथ च सुष्टुपयोधरौ स्तनौ यस्याः सा। कुवलयपत्रलाक्षी नीलोत्पलदलसमाननयवा न लग्ना वक्षसि कथं न मोहं न जनयति / अपि तु जनयतीत्यर्थः / सहृदय हृदयंगम / ' घ. टिप्पणी. 3. 'असिलवाअच्चाओ' ख. 4. 'लोअणभउन्तो' क., 'लोअणमओहो' ग.घ. 5. 'कुवलअपत्तिलच्छि' क., 'कुवलय' ख., 6. 'कहमोनुभाइणगाजणवच्छि' क.