________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / उपमैव रसाभाससंकरविषया यथा_ 'एकेनार्क प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम् / अह्रश्छेदे दयितविरहाशकिनी चक्रवाकी तौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा // 495 / / / . अत्र निगदेनैव व्याख्याते स्पष्टतयैवोपमायाः प्रधानत्वेन प्रतीतिः।। रसप्रशमयोरुपमासहोक्तिर्यथा 'दृष्टे लोचनवन्मनाङ्मुकुलितं पार्थस्थिते चक्रव__न्यग्भूतं बहिरासितं पुलकवस्पर्श समातन्वति / नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो ___ मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि // 196 // ' अत्र कस्याश्चित्सखीविख्यातमानसंविधानकोपान्मानवत्याः प्रियसं. दर्शनादालम्बनविभावादुत्पन्नप्रकृष्टरतिप्रभवे प्रहर्षस्थायिभावे तत्पा!पसर्पणादिभिरुद्दीपनविभावरुद्दीप्यमाने समुत्पद्यमानेषु पुलकादिषु मुखा. त्मकेषु व्यभिचारिषु नयननिमीलनाधोमुख्यनीवीविषेसनादिभिरनुभावैः प्रकर्षणारोपणादानन्दरसतामापाद्यमान स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमसंकराबभिभूय प्राधान्येनोपमासहोक्तिः प्रकाशते // 1. संस्थां' क. 2. पश्येत्युक्त्वा' क. 3. 'व्याख्यायते' क. 4. 'प्राधान्येन' घ. 5. 'तत्स्पर्शमातन्वति' ख. 6. 'रतिप्रभवहर्षस्थायिभावे' क., 'रतिप्रभवे प्रहर्षस्यापि भावे' ख. 7. 'तत्पार्थेऽपि समर्पणादिभिः' क. 8. 'उद्दीप्यमानेषु' क. 9. 'समुत्पद्यमानेषु' क. नास्ति. 10. 'पुलकादिषु समुत्पद्यमानेषु व्यभिचारिषु' क.ख. 11. 'विधेसनादिमिः' ख. 12. 'आनन्दरसानाम्' ख. 13. 'संकीर्यते' क.ख.