________________ 728 काव्यमाला। . सैव विधिनिषेधाभ्यां यथा'हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरे हस्तेनांसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोः / शैलोद्धारसहायतां जिगमिषोरस्पृष्टगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः 493' अत्र राधायाः प्रेयसि हरौ यथावेदस्तितोद्भूतवृत्तिस्नेहशङ्कोत्साहा मिथः संकीर्यमाणा भयावेगस्मृतिमतिवितर्कादिभिर्व्यभिचारिभावैरालम्बनचरणाक्रमणसहकृतायां करंभ्रान्तौ शरीरारम्भानुभावे प्रतीयमाना अस्पृष्टगोवर्धना वन्ध्या इति निषेधमुखेन जयन्तीति विधिमुखेन चाभिधीयन्ते // वक्रोक्तिपक्ष उपमादयः। तेषूपमा यथा'चोरी सभअसतण्डं पुणो पुणो पेसप्रति दिट्ठीओ। अहिरक्खिअणिहिकलसे ब पोर्टेमहिलाथणुच्छंगे / / 494 / ' चोराः समयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः / अभिरक्षितनिधिकलश इव प्रौढमहिलास्तनोत्सङ्गे // ] / अत्र चौरंगतभयानुरागयोः संकरस्वभावोक्तिमतिभूयोत्तरार्धागतमौपम्यं प्राधान्येन प्रतीयते // . . 1. 'हस्तेनास त एव' क., 'हस्तेनांसत एव' ख. 2. 'यथावदवस्थिता अद्भुत-' ख. 3. 'चोरा भअसतहणं पुणो पेसवत दिध्वीओ / अहिरस्थिअनिहिकलसे थयोकहलपूइखणुत्सङ्गे' क. 4. पोढवइआथणुच्छङ्गे' गाथासप्त०., 'प्रौढपतिकास्तनोत्सङ्गे' इति च्छाया च. 5. 'चोरगत-' ग.घ.