________________ 732 . काव्यमाला। समाधिरूपकेण यथा'शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले . दृशस्तारास्ताराश्चलमुडुपचक्रं च कुचयोः। तडित्काञ्ची सन्ध्या सिचयरुचयः कालि तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते // 502 // अत्र भयानको रसः समाधिरूपकाद्युपकल्पिताकल्परामणीयकाक्षिप्तेन शृङ्गाराभासेन संकीर्यमाणः श्रोतुः प्रेयोरसाङ्गतां गच्छन्संगच्छते / एवमियमनेकप्रकारसंसृष्टिगुणालंकारसंकरप्रभवाभिमन्तव्या तत्रापि प्रधा• नाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोभयात्मकरूपास्तिलतन्दुलक्षीरजलाच्छायादर्शकादयो भेदा यथायोगमवगन्तव्याः / ते किं वक्तव्या न वक्तव्याः / कथमनुक्ता गम्यन्ते / उक्तेष्वेवान्तर्भावात् / तद्यथाअर्थोभयालंकाराभिधाने 'खं वस्ते' इति 'चर्चा पारयति' इति विभक्तिमुद्रा, कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दालंकारावपि संकीर्यमाणौ प्रतीयते / एवमन्यत्रापि / . .. अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता / इत्यलंकारसंसृष्टेलक्षणीया द्वयी गतिः // 176 // तत्राङ्गाङ्गिभावेनावस्थानं यथा'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् / कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् // 503 // ' अनारविन्दानि 'मुग्धे तव मुखश्रियमाक्षिपन्तीति' उपमा, 'कोष१. 'अनेकप्रकारसंसृष्टिः' ख. 2. 'तण्डुल' क.ख. 3. 'यथायोग्यं' ख. 4. 'सं. सृष्टिः' घ. 5. 'अतिदुष्करं' घ. 6. 'अत्र-' इत्यारभ्य 'दुष्करम्' इत्यन्तः पाठो ग.घ. नास्ति. . 4 .