________________ 716 "काव्यमाला। ___ अवार्थप्राकट्यं प्रसादः विभवोत्कर्ष उदात्तता मृदुप्रस्फुटोन्मिश्रव नामवैषम्यं समता, बन्धगाढता, और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालंकारानुप्रासः प्रतीयते // अर्थालंकारप्रधानो यथा'आश्लेषिणः पृथुतरक्लमपीतशीत मायाविनीर्घनमुदो रजनीयुवानः / ऊोर्मुहुर्वलनबन्धनसन्धिलोल पादान्तसंवलिततूलपटीः खपन्ति // 470 // अत्र बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वम् , विभवोत्कर्ष औदार्यम्, दीप्तरसत्वम्, कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालंकारः प्रतीयते / उभयालंकारप्रधानो यथा 'अभ्युद्धता वसुमती दलितं रिपूरः __क्रोडीकृता बलवता बलिराजलक्ष्मीः / अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः // 471 // अत्रोक्तिपरिपाटीः प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम् , अर्थप्राकट्यं प्रसादः-इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालंकारः प्राधान्येन प्रतीयते // रससंकरोऽपि चालंकारसंकरवदेव / भावरसाभासप्रशमानां तिलतण्डुलादिप्रकारेण संकरः षट्प्रकारको भवति / तत्र भावानां तिलतण्डुलप्रकारो यथा- . . 1. 'पृथुरतक्लम' क.ख. 2. 'कण्ठैः' ख. 3. 'लोलपटाः' क.खः 4. 'उदात्तता' क.ख. 5. 'अभ्युद्गता' ख. 6. 'उक्तिपरिपाकः' क. 7. 'षट्प्रकारो' क.ख.