________________ 5 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 'न्यक्कारो हृदि वज्रकील इव मे तीवः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया। शोकस्तायविपत्तितो देहति मां नास्त्येव यस्मिन्क्रिया ___ मर्माण्येवं पुनश्छिनत्ति करुणा सीतां वराकी प्रति // 172 // अत्रामर्षलज्जाशोकानुकम्पाः समकक्षतया मिथस्तिलतण्डुलवत्संकीर्यमाणा रामस्य विरहिणो वागारम्भानुआँवोक्तिपरतया प्रतीयन्ते // क्षीरनीरप्रकारो यथा'मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् / दाक्षिण्यमात्रमहणेन विचेष्टितेन धूर्तस्य तस्य हि गुणा नु परं जयन्ति // 173 // . अत्र सखीषु रोषः प्रियगुणेषु चासूया, क्षीरनीरवन्मिथः संकीर्यमाणौ मानिनीवागारम्भपरतया प्रतीयते // छायादर्शप्रकारो यथा'आः सीते पतिगर्वविभ्रमभरान्तभ्रमद्वान्धव प्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम् / संप्रत्येव हठात्तदेष कुरुते केशोच्चयाकर्षण त्रासोत्तानितलोललोचनपतद्वाष्पप्लुतं रावणः // 474 // ' अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः संकीर्यमाण उपलभ्यते // 1. तातविपत्तिजो' ख., 'ता_सजातीयत्वात् ताक्ष्योऽत्र जटायुरभिधीयते' घ. पुस्तकस्यायुषि टिप्पणी. 2. 'दहति यन्नास्त्येव' क. 3. 'मर्माणीव' ख. 4. 'अनुरागोक्तिपरतया' क.स. 5. 'संकीर्यमाणो' क., 'संकीर्यमाणे' ख. 6. 'प्रतीयेते' क.ख. 7. 'प्रान्त' क. 8. 'तदेव' क.ख. 9. केशोच्चयोत्कर्षण' क.ख. 10. 'संकीर्यते' क.ख