________________ 5 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / आश्लिष्टश्लथभावां तु पुराणच्छायमाश्रिताम् / मधुरों सुकुमारों च पाञ्चाली कवयो विदुः / / माधुर्यमपि वाञ्छन्तः प्रसादं च सुमेधसः / समासवन्ति भूयांसि न पदानि प्रयुञ्जते // लाटीयावन्त्ययो रीत्योर्मागध्यां च क्वचित्वचित् / केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि // प्रतीतशब्दमोजखि सुश्लिष्टपदेसंधि च / प्रसादि खभिधानं च यमकं कृतिना मतम् // ' इति / ____ मा भूदलंकारतुल्यकक्षतया अर्थस्य प्राधान्यं शब्दगुणस्य तु श्लाघ्यविशेषगुणयोग उदात्तमित्यादेः किमिति प्राधान्यं न भवति दोषगुणानामतीवोल्लेखवत्त्वेने प्राधान्यात् // सा वामनप्रसिद्धिर्लचितनभसो बलिद्विषोऽद्यापि / मत्सरिणः खलु लोका मर्माण्येवानुबध्नन्ति // . दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति // शब्दालंकारप्रधानो यथा 'यच्चन्द्रकोटिकरकोरकभारंभाजि बभ्राम बभ्रुणि जटापटले हरस्य / तद्वः पुनातु हिमशैलशिलानिकुञ्ज- ' झात्कारडम्बरविरावि सुरापगाम्भः // 469 // 1. 'सुकमारी च' ख. 2. 'सुश्लिष्टपदसंघिता' क., 'सुश्लिष्टपदसंधिमत्' ख. 3. 'चायामकं कृतिनां मतम्' क ख. 4. 'अर्थप्रधानोदारगुणस्य' ख. 5. 'मतीवोल्लखविधित्वेन' क.ख. 6. 'प्र(प्रा)धान्यात्' क. 7. अत्र 'यथा-' इत्यधिकं क. 8. 'कोरकभारभाजि' क., 'कोरकहारभाजि' ख. 9. 'टाङ्कारडम्बरविरावि' क., 'प्राकारडम्बरविरावि' ख.