________________ काव्यमाला / यानि प्रणाममिलितानि नृणां ललाटे.. . लुम्पन्ति दैवलिखितानि दुरक्षराणि // 467 // ... अत्र हेतुसाम्योभयालंकाराभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते // दोषगुणप्रधानो यथा 'येनापविद्धसलिलस्फुटनागसद्मा ' देवासुरैरमृतमम्बुनिधिर्ममन्थे / . - व्यावर्तनैरहिपतेरयमाहिताकः खं व्यालिखन्निव विभाति स मन्दराद्रिः // 468 // .. अत्र 'व्यावर्तनैरहिपतेरयमाहिताङ्कः' इति ज्ञापकहेतोः 'खं व्यालि. खन्निव' इति उत्प्रेक्षावयवाच्च, देवासुरैरिति नित्यैवैराविवक्षायां बहुवचनम् , 'अमृतमम्बुनिधिर्ममन्थे' इति द्विकर्मकेष्वपि मथिप्रभृतीनामुपसंख्यानमिति अमृतशब्दाद्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते / ननु चात्रार्थस्य प्राधान्यं कथं भवति तद्विषयस्य ज्ञापकहेतुनापहृतत्वात्सोऽप्यर्थालंकार एव. / गुणालंकारयोश्च तुल्यकक्षतायामलंकारः प्रधानं भवति न गुणः / गुणैर्हि गुणभूतैरेवालंकाराः प्राय आरभ्यन्ते / तद्यथा 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता / विपञ्चीखरसौभाग्या वैदर्भी रीतिरिष्यते // समस्तात्युद्भटपदामोजःकान्तिसमन्विताम् / गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः // .. 1. 'लिम्पन्ति' घ. 2. 'अत्र हेतुवाक्यउभयालंकारप्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते' क. 3. 'नित्यविवक्षायाम्' ख. 4. 'प्राधान्यं न भवति' क.ख. 5. 'समस्तेत्युत्कटपदाम्' क., 'समस्तात्युत्कटपदाम्' ख. 6. 'गौडीयां तां' क.ख.