________________ 5 परिच्छेदः।] सरखतीकण्ठाभरणम् / 709 त्युक्त्वा त्वत्पादाजद्वयं वन्द इति विरुद्धम् , मूर्ध्नि चुम्बामि हृदि वहामीत्यादौ वन्द इति क्रियाखनुपयोगात् पूर्णचन्द्रेतिदर्शनादिक्रियोपयोगि व्यर्थ चेति दोषैगुणाः संकीर्यन्ते / रसाक्षिप्तचित्तादौ हि पुनरुक्तादयो नै दुष्यन्ति // अर्थगुणानां दोषगुणानां यथा 'किं द्वारि दैवहतिके सहकारकेण __ संवर्धितेन विषपादप एष पापः / अस्मिन्मनागपि विकासविकारभाजि - भीमा भवन्ति मदनज्वरसंनिपाताः // 460 // " अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः, दैवहतिके विषपादपोऽयं पाप इत्यमङ्गलार्थ ग्राम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसंनिपाता इत्यत्र च कृत्यप्रयोजनादेविरहिणो द्रष्टुरित्यादेश्चाध्याहारादसंपूर्णवाक्यतायामर्थव्यक्तिविपर्ययः / अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वादृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः संकीर्यन्ते / यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम् , प्रविश पिण्डी द्वारं भक्षय इति न्यायात्प्रसिद्धाध्याहारः, दरी वदति, मञ्चाः क्रोशन्ती'ति प्रयोगदर्शनादाधाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति // अथालंकारसंकरः। स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्षताभ्यां पुरस्तादुक्तः तथापि तेषां गुणादिसंकरासाधारण१. 'पूर्णचन्द्रनिदर्शनादि-' ख. 2. 'दोषगुणाः परस्परं संकीर्यन्ते' क.ख. 3. 'न' ग, नास्ति .