________________ 708 . . - काव्यमाला। ... इति पुनरुक्तम् , चारुसर्वाङ्गीत्युक्त्वा वरारोहेति व्यर्थम् , त एते सजातीयाश्चत्वारोऽपि दोषगुणाः संकीर्यमाणाः कस्यचिदुन्मत्तभाषिणोऽनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते // यदाह- .. अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते / न दोषः पुनरुक्तादौ प्रत्युतेयमलंक्रिया / अर्थार्सजातीयानां शब्दगुणानामर्थगुणानां च संकरो यथा'को नाम नोदयति नास्तमुपैति को वा लोकोत्तरः पुनरयं सविता जगत्सु / यत्रोदयास्तमयभाजि रुचां निधाने. द्वेधा भवत्यहरिति क्षणदेति कालः // 458 // अत्र यावदर्थपदता संमितत्वम् , सम्यग्बन्धविकटत्वमुदारता, श्लाध्यविशेषगुणयोग उदात्तत्वमिति शब्दगुणाः, उक्तार्थनिर्वहणं प्रौढिः, अर्थप्राकट्यं प्रसादः, रूढाहंकारतौर्जित्यमित्यर्थगुणाः संकीर्यन्ते // शब्दगुणानां दोषगुणानां च यथा'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् / आरोप्य वा हृदि दिवानिशमुहामि . वन्देऽथवा चरणपुष्करकद्वयं ते // 459 // अत्र भावतो वाक्प्रवृत्ति विकत्वम् , प्रसिद्धार्थपदता प्रसादः, प्रियार्थपदोपादानं प्रेय इति शब्दगुणाः, एयेहीति पुनरुक्तम् , वत्से___१. 'उक्ती' क.ख. 2. 'अनुकम्पाद्यतिशयं' ख. 3. 'विवक्षते' ख. 4. 'अथ सजातीयाम्' ख.घ. 5. सस्मितत्वम्' ख. 6. श्लाघ्यविशेषगुणयोग' इत्यस्य स्थाने 'विशेषगुणयोग' क.ख. 7. 'चिराय' क.ख. मुद्रिते महारवीरचरिते च. 8. 'वाक्प्रतिपत्तिः' क. ख. 9. 'प्रियार्थपदोपादानम्' क.ख..