________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 707 . सजातीयानां शब्दगुणेषु समाध्यादीनां यथा--- .. ... 'णवपल्लवेसु लोलइ घोलइ विडवेसु वलइ सिहरेसु / थवइ थवएसु अ तहाँ वसंतलच्छी असोअस्स // 455 // नवपल्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेषुः / स्थगति स्तबकेषु च तथा वसन्तलक्ष्मीरशोकस्य // ] अत्रान्यधर्माणामन्यत्रारोपणं समाधिः पृथक्पदता माधुर्य, बन्धवि. कटत्वमुदारता, ध्वनिमत्ता गाम्भीर्यमिति सजातीयाः संकीर्यन्ते / यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति / यथा कस्यचिदशोकस्य मानिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति // अर्थगुणेषु श्लेषादीनां यथा- . .' 'जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच-... " . . स्तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने / ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यया ... रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति // 456 // ' अत्र संविधाने सुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्यादिक्रियाक्रमो रीतिः, दीप्तरसत्वं कान्तिरित्यर्थगुणाः सजातीयाः संकीर्यन्ते // .. दोषगुणेषु ग्राम्यादीनां यथा'हन्यते सा वरारोहा सरेणाकाण्डवैरिणा। हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी // 457 // अत्र हन्यत इत्यमालार्थम् , वरारोहेत्यश्लीलार्थम् , हन्यते हन्यत 1. 'विलवेसु' कःख.ग. 2. 'महा' क. 3. 'बन्धविगूढत्वम्' ख. 4. 'ध्वनिमत्ता' घ. 5. 'अन्यार्थगुणेषु' क. 6. 'शुभे क. 7. 'यथा' क.ख. 8. 'संविधानेषु सूत्रता' ख. 9. 'श्रमादीनां' क..१०. 'इत्यसङ्गतार्थम्' ख..११. हन्यते' क.ख..