________________ 06 काव्यमाला / प्रशंसानित्ययोरिति योगयोरिति द्रष्टव्यम् / नित्यो हि काव्ये गुणयोग इव रसादियोगः / गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा / संसर्गस्तु गुणानामवश्यमुपादानेषु / निन्दा पुनर्दोषहानेर्नावतरति / गुणेषु प्रेय इति रूपाभेदात् कथमलंकारत्वे तदुत्कर्षप्रतीतिः / यथा 'युधिष्ठिरः श्रेष्ठतमः कुरूणाम्' इति तत्रातिशायिकान्तरेण तदवगतिरिति चेत् इहापि 'युक्तोत्कर्ष च तत्रयम्' इति वाक्यान्तरेण भविष्यति / न चातिशायिका खातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति / स्वार्थिकेषु ह्येते विधीयन्ते / एवमवस्थापिते गुणरसानामलंकारत्वे पप्रकारो-रसालंकारसंकरः संभवति-गुणसंकरः, अलंकारसंकरः, गुणालंकारसंकरः, रससंकरः, रसगुणसंकरः, रसालं. कारसंकरः इति / ननु च गुणानां संकरव्यवहारो नोपपद्यते बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात् / मैवम् / त्रिविधा गुणाः-शब्दगुणाः, अर्थगुणाः, दोषगुणाश्च / ते तु प्रत्येकं द्विधा-उल्लेखवन्तः, निरुल्लेखाश्च / तत्र शब्दगुणेषु समाधिमाधुर्योदार्यगाम्भीर्यादयः सोल्लेखाः, श्लेषप्रसादसमतामाधुर्यादयो निरुल्लेखाः। अर्थगुणेषु प्रसादरीतिकान्त्यादयः सोल्लेखाः, अर्थव्यक्तिसौक्ष्म्यगाम्भीर्यसंमितत्वादयो निरुल्लेखाः / दोषगुणेषु ग्राम्यपुनरुक्तापार्थान्यार्थादयः सोल्लेखाः, शब्दहीनसंभ्रमापक्रमविसन्ध्यादयो निरुल्लेखाः / तत्र सजातीयानां सोल्लेखानामेवं, विजातीयानां तु निरुलेखानामपि संकरव्यवहारः प्रवर्तते // 1. 'दोषहानेन वितरति' क., 'दोषहानेन वितरति' ख. 2. 'प्रेम इति' ख. 3. 'तत्रातिशायिगुणान्तरेण' क.ख. 4. 'षट्प्रकारको क. 5. 'रसालंकारसंकरश्चेति' क.ख. 6. 'नन्वत्र' क.ख. 7. 'सौकुमार्यादयो' क.ख. 8: गाम्भीर्यादयो' ख. 9. विजातीयानां विजातीयानां तु घ.