________________ 719 काव्यमाला / त्वात्संप्रति साधारणः प्रकार उच्यते / स षोढा शब्दालंकारसंकरः, अर्थालंकारसंकरः, उभयालंकारसंकरः, शब्दार्थालंकारसंकरः, शब्दार्थोभयालंकारसंकरः, अर्थोभ्यालंकारसंकरश्च / तेषु शब्दालंकारसंकरो यथा हंसाली भयतरला सारा सरसा सराससारसरासा / अम्बरमरमारूढा सारासरसा सराससारसरासा // अत्र संस्कृतप्राकृतभाषासंश्लेषः, गतप्रत्यागतं चित्रं, पदावृत्तियमकं, वर्णानुप्रासश्चेति चत्वारः शब्दालंकाराः संकीर्यन्ते // अर्थालंकारसंकरो यथा'वासावस्थितताम्रचूडवयसामायामिभिः कूजितै• दूरादप्यनुमीयमानवसति_मोऽयमन्तर्वणम् / यत्रोद्दीप्तकुकूलकूटविसरज्झम्पाघनं घूर्णते ___सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः // 461 // ' अत्र ताम्रचूडवयसां कूजितैरित्यनुमानम् , यत्र तमो घूर्णत इति ज्ञापकहेतुः, कुकूलकूटविसरज्झम्पाघनमिति सन्ध्यान्तोल्लसदच्छभल्लपट. 1. 'शब्दोभयालंकारसंकरः' ख. 2. अत्र 'च' इत्यधिकं क.ख. 3. 'हंसानामाली पतिः / अम्बरमाकाशमरमत्यन्तमारूढा / किंभूता।' भयेन चञ्चला। पुनः किंभूता। सरसा रससहिता / पुनः किंभूता। सरासाः सशब्दा ये सारसास्तेषां रासः क्रीडा यस्यास्तथा / पुनः किंभूता / आरासे शब्दे यो रसस्तत्सहिता / पुनः किंभूता। सरसं सरः गमनं तेनास्यते क्षिप्यते सरासः। सरसि भवः सारसः / स चासौ स च / एवंविधो रासः क्रीडा यस्यास्तथेति'. घ. पुस्तकस्यायुषि टिप्पणी. 4. सरासुमा' क. 5. 'अम्बरमारूढा' क., 'अम्बरसाररूढा' ख. 6. 'पादावृत्तियमकम्' क.ख. 7. 'शब्दालंकाराः' क.ख. 8. 'सृगालकूलविसरधूम्यान्धनं' क., 'कुकूलकूटविसरभूम्याघनं' ख. पावन पूणत