________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / . यदालोकस्थाने भवति पुरमुन्मादतरलैः ...... , कटाक्षेर्नारीणां कुबलयितवातायनमिव // 426 // मानिता यथा'यदात्थ कामं भवता स याच्यता- .. मिति क्षमं नैलदनल्पचेतसाम् / कथं प्रसह्याहरणैषिणां प्रियाः - परानुवृत्त्या मलिनीकृताः श्रियः // 427 // उदारवाक्यत्वं यथा'ख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते संयत्तो भव शक्तिरैस्ति भवतः सत्यं मनुष्यो भवान् / शस्त्रैरव्यवधीयमानयशसः प्रायो वयं तेषु चे साहुस्ते ननु सन्ति तेऽपि गिरयो यैर्वानराः शस्त्रिणः // 4281 स्थिरानुरागिता यथा 'ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः ____पुराणैरातकग्लपितहृदयेन क्षितिभृता / विना वाचं नैताममिति निधायाननमधः पतद्बाष्पाम्भोभिर्निखिलमिव दत्तं प्रतिवचः // 429 // नायिकागुणेषु स्त्रिया महाकुलिनता यथा'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः / न प्रभातरलं ज्योतिरुदेति वसुधातलात् // 430 // 1. 'परानवत्या' श्रीमत्पितृचरणसंपादिते किरातार्जुनीये. 2. 'शाता' मुद्रिते महावीरचरिते. 3. 'सत्यमस्ति' मुद्रिते वीरचरिते. 4. 'विजयाः' मुद्रिते वीरचरिते. 5. 'ग्राहस्ते मुखमाश्वसन्ति' मुद्रिते वीरचरिते. 6. 'क्षपयति' ख.७.'मानुषीभ्यः'ख,