________________ 698 काव्यमाला। औदार्य यथा'भ्रूभेदे सहसोद्दतेऽपि वदनं नीतं परां नम्रता मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् / अन्तर्बाष्पजलीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रत्ययः // 431 // महाभाग्यं यथा'तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे / समादिदेशैकवर्धू भवित्री प्रेम्णा शरीराधहरां हरस्य // 432 // कृतज्ञता यथा'पुरिससरिसं तुह इमं रक्खससरिसं कणिसाअरवइणा / कह ता चिंतितं महिलासरिसं ण संपडइ मे मरणं // 433 // [पुरुषसदृशं तवेदं राक्षससदृशं कृतं निशाचरपतिना। कथं तावचिन्तितसुलभं महिलासदृशं न संपद्यते मे मरणम् / / रूपसंपद यथा- . 'आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः / उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः // 434 // ' यौवनसंपद् यथा"उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिभिन्नमिवारविन्दम् / बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन // 435 // वैदग्ध्यसंपद् यथा-- "एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमारत स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविनितः / 1. 'भ्रभङ्गे' मुद्रितरत्नावल्याम्. 2. 'सहसा कृतेऽपि' क. 3. 'अन्तर्बाष्पजडीकृतं' ख., मुद्रितरत्नावल्यां च. 4. 'प्रत्ययः' ख. 5. 'किअं' घ. 6. 'आचिन्तिज्ज' क.ख. 7. 'चिन्तिअसुलहं' इति काव्यमालामुद्रिते सेतुबन्धे. 8. 'ताम्बूलाहरणच्छलेन' घ., काव्यमालामुद्रितेऽमरुशतके च.