________________ 696 कानमाला। कृतज्ञता यथा'कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितै...नमसि गता यस्य प्रीत्या धृतापि तथाम्बया / नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः // 421 // ' रूपसंपद् यथा'व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः / आत्मकर्मक्षमं देहं क्षात्रों धर्म इवाश्रितः // 422 // यौवनसंपद् यथा'महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव / रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः // 423 // ' वैदग्ध्यसंपद् यथा'कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा स्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं कोस्ति मे / पश्यामीत्यभिधाय सान्द्रपुलको मृद्गन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवतायूते हसन्वो हरः // 424 // ' शीलसंपद् यथा'का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते / आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति // 425 // " सौभाग्यसंपद् यथा'असौ विद्याधारः शिशुरपि विनिर्गत्य भवना दिहायातः संप्रत्यविकलशरच्चन्द्रमधुरः। 1. 'इवास्थितः' ग. 2. 'कास्ति' ख.