________________ 5 परिच्छेदः।] सरखतीकण्ठाभरणम् / त्रिजटादिरागन्तुर्यथा'जाणइ सिणेहभणि मा रअणिअरित्ति मे जुउच्छसु वअणम् / उज्जाणम्मि वैणम्मि अजं सुरहिं तं लआण घेप्पइ कुसुमं 417' [जानकि स्नेहभणितं मा रजनीचरीति मे जुगुप्सस्व वचनम् / उद्याने वने च यत्सुरभि तल्लतानां गृह्यते कुसुमम् // ] नायकगुणेषु महाकुलीनत्वं पुंसो यथा'वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यमिकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः / अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्योटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः // 418 // औदार्य यथा'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत / विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रै चास्तं गतम् // 419 // महाभाग्यं यथा'दोर्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण: ' ग्रन्थ्युद्भासिनि भनमोघमघवन्मातङ्गदन्तोद्यमे / - भर्तुर्नन्दनदेवताविरचितस्रग्दानि भूमेः सुता वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु // 420 // बी 1. 'जउछसे' घः 2. 'वणिम्मि' क. 3. गेण्हइ' काव्यमालामुद्रिते सेतुबन्धे. 4. 'गूजेराः' ग.घ. 5. 'साथ' ग.घ. 6. 'यन्नैव' क. 7. 'द्राङ् मुद्रिते महा. वीरचरिते.