________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 681 रजःप्रधानो राजसो यथा'सामन्तमौलिमणिरञ्जितशासनाङ्क मेकातपत्रमवनेर्न तथा प्रभुत्वम् / अस्याः सखे चरणयोरधिगम्य सम्य __गाज्ञाकरत्वमहमद्य यथा कृतार्थः // 362 // तमःप्रधानस्तामसो यथा 'तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वः ___स दर्पदुद्दामद्विषमसहमानः कलयतु / अरामा निःसीरध्वजदशरथीकृत्य वसुधा मतृप्तस्तत्कुल्यानपि परशुरामः शमयति // 363 // ' अनेकजातिः साधारणो यथा- . 'स्माता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजखसु तै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च / इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः // 364 // अनन्यजानिरसाधारणो यथा'आविवाहसमयागृहे वने शैशवे तदनु यौवने पुनः / खापहेतुरनुपासितोऽन्यया रामबाहुरुपधानमेष ते // 365 // ' अहंकारप्रधानो धीरोद्धतो यथा'चक्र वा मधुहा कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं __वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा / 1. मुद्रिते महावीरचरिते तु 'व्यवहरति' इति पाठः. 2. 'उद्दामं द्विषमसहमानं' के., 'उद्दामस्त्विषमसहमानः स्खलयतु' इति च मुद्रिते वीरचरिते. 3. 'जगतीं' इति मुद्रिते वीरचरिते. 4. 'तत्कुल्यामपि' क., 'तत्कल्पामपि' ख.५. 'अनुपाश्रितोऽन्यया' इति मुद्रित उत्तररामचरिते. 6. 'कृतान्तगृहिणां' ख.