________________ :: काव्यमाला। नायकेषु सर्वगुणसंपद्योगादुत्तमः / स यथा'रामोऽयं जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परा मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् / बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति( श्रेणीभूतविशालतालविवरोद्भूतैः खरैः सप्तभिः 358' पादोनगुणसम्पद्योगान्मध्यमो यथा'किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं . किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि / जीवद्भातृशतस्य मे भुजबलेच्छायां सुखामाश्रिता - त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव / / 359 // अर्धगुणसम्पद्योगात्कनिष्ठो यथा-. 'एकस्मिञ्शयने मया मयसुतामालिङ्गय निद्रालसा मुन्निद्रं शयितेन मञ्चरणयोः संवाहनव्यामृता / पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता . हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति // 360 // ' सत्त्वप्रधानः सात्त्विको यथा'शक्त्या वक्षसि ममया सह मया मूढे प्लवङ्गाधिपे निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि / मा भैष्टेति निरुन्धतः कपिभयं तस्योद्भटभ्रूस्थितेमर्मच्छेदविसंष्ठुलाक्षरजडा वाचस्त्वया न श्रुताः 361' 1. नि. सा. मुद्रिते वेणीसंहारे तु- भीरु भ्रातृशतस्य या भुजघनच्छाया सुखो. पास्थिता' इति पाठः. 2. 'भुजवनच्छायां' क. 3. 'निद्राशयां' ख.